________________
Shri Man
www.kobatirth.org
Acharya Shri Kailashsagarsu framandir
Aradhana Kendra दर्शयति, तत्रापि सर्वारम्भाः कर्मोपादानरूपाः प्रायश आत्मात्मीयग्रहोत्थाना इतिखाऽऽदौ परिग्रहमेव दर्शितवान्, चित्तम्उपयोगो ज्ञानं तद्विद्यते यस्य तच्चित्तवत्-द्विपदचतुष्पदादि, ततोऽन्यदचित्तवत्-कनकरजतादि, तदुभयरूपमपि परिग्रहं परिगृह्य | 'कृशमपि स्तोकमपि तृणतुषादिकमपीत्यर्थः, यदिवा कसनं कसः-परिग्रहग्रहणबुड्या जीवस्य गमनपरिणाम इतियावत् , तदेवं | स्वतः परिग्रहं परिगृह्यान्यान्वा ग्राहयित्वा गृह्णतो वाज्न्याननुज्ञाय दुःखयतीति दुःखम् -अष्टप्रकारं कर्म तत्फलं वा असातो| दयादिरूपं तस्मान्न मुच्यत इति, परिग्रहाग्रह एव परमार्थतोऽनर्थमूलं भवति, तथा चोक्तम् -"ममाहमिति चैष यावदभिमा
नदाहज्वरः, कृतान्तमुखमेव तावदिति न प्रशान्त्युनयः। यशःसुखपिपासितैरयमसावनर्थोत्तरैः, परैरपसदः कुतोऽपि कथमप्य|पाकृष्यते ॥१॥" तथा च "द्वेषस्यायतनं धृतेरपचयःक्षान्तेः प्रतीपो विधियाक्षेपस्य सुहृन्मदस्य भवनं ध्यानस्य कष्टो रिपुः । दुःखस्य प्रभवः सुखस्य निधनं पापस्य वासो निजः, प्राज्ञस्यापि परिग्रहो ग्रह इव क्लेशाय नाशाय च ॥२॥" तथा च परिग्रहेध्वप्राप्तनष्टेषु कासाशोको प्राप्तेषु च रक्षणमुपभोगे चातृप्तिरित्येवं परिग्रहे सति दुःखात्मकाद्वन्धनान्न मुच्यत इति ॥२॥ परिग्रह| वतश्चावश्यंभाव्यारम्भस्तसिंश्च प्राणातिपात इति दर्शयितुमाह
सयं तिवायए पाणे, अदुवाऽन्नेहिं घायए । हणंतं वाऽणुजाणाइ, वेरं वड्डइ अप्पणो ॥३॥ जस्सि कुले समुप्पन्ने, जेहिं वा संवसे नरे। ममाइ लुप्पई वाले, अण्णे अण्णेहि मुच्छिए ॥ ४॥ यदिवा-प्रकारान्तरेण बन्धनमेवाह-'सयं तीत्यादि', स परिग्रहवानसंतुष्टो भूयस्तदर्जनपरः समर्जितोपद्रवकारिणि च
सूत्रकृ.३
For Private And Personal