SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahar Jain Aradhana Kendra www.kcbatrth.org Acharya Shri Kalaha १ समयाध्ययने बन्धप्रश्नोत्तरे सूत्रकृताङ्गं शीलाङ्काचार्यायवृ त्तियुतं ॥१२॥ बुझिजत्ति तिउहिज्जा, बंधणं परिजाणिया । किमाह बंधणं वीरो, किंवा जाणं तिउट्टई ? ॥१॥ ___ अस्य संहितादिक्रमेण व्याख्या-बुध्येतेत्यादि, सूत्रमिदं सूत्रकृताङ्गादौ वर्तते, अस्य चाचाराङ्गेन सहायं संवन्धः, तद्यथाआचाराङ्गेऽभिहितम्-'जीवो छक्काय परूवणा य तेसिं वहेण बंधोति' इत्यादि तत्सर्व बुध्येतत्यादि, यदिवेह केषाश्चिद्वादिना ज्ञानादेव मुक्त्यवाप्तिरन्येषां क्रियामात्रात् , जैनानां तूभाभ्यां निःश्रेयसाधिगम इत्येतदनेन श्लोकेन प्रतिपाद्यते । तत्रापि ज्ञानपूर्विका | क्रिया फलवती भवतीत्यादौ बुध्येतेत्यनेन ज्ञानमुक्तं त्रोटयेदित्यनेन च क्रियोक्ता, तत्रायमर्थो-'बुध्येत' अवगच्छेत् बोधं विद ध्यादित्युपदेशः, किं पुनस्तदुध्येतेति आह-'बन्धन' बध्यते जीवप्रदेशैरन्योऽन्यानुवेधरूपतया व्यवस्थाप्यत इति बन्धनंज्ञानावर| णाद्यष्टप्रकार की तद्धेतवो वा मिथ्यात्वाविरत्यादयः परिग्रहारम्भादयो वा, न च बोधमात्रादभिलषितार्थावाप्तिर्भवतीत्यतः क्रियां। दर्शयति तच्च बंधनं परिज्ञाय विशिष्टया क्रियया-संयमानुष्ठानरूपया 'त्रोटयेदु' अपनयेदात्मनः पृथकुर्यात्परित्यजेद्वा, एवं चाभि-1 हिते जम्बूस्खाम्यादिको विनेयो बन्धादिस्वरूपं विशिष्टं जिज्ञासुः पप्रच्छ-'किमाह' किमुक्तवान् बन्धनं 'वीरः' तीर्थकृत् ?, किंवा 'जानन्' अवगच्छंस्तद्वन्धनं त्रोटयति ततो वा त्रुट्यति ?, इति श्लोकार्थः॥१॥ बन्धनप्रश्नखरूपप्रश्ननिर्वचनायाहचित्तमन्तमचित्तं वा, परिगिज्झ किसामवि । अन्नं वा अणुजाणाइ, एवं दुक्खा ण मुच्चइ ॥२॥ | इह बन्धनं कर्म तद्धेतवो वाऽभिधीयन्ते, तत्र न निदानमन्तरेण निदानिनो जन्मेति निदानमेव दर्शयति, तत्रापि सर्वारम्भाः eleseseeeeeeeee ॥१२॥ छव्विहं विद्धि लक्खणं ॥१॥" इति व्याख्यालक्षणे तस्या एवादौ प्रतिपादनात् ॥ १ एकान्तपरोक्षे चू० २ कर्मणो बन्धनत्वपक्षे॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy