________________
Acharya Shri Kailashsaga
कस्यचित्प्राणिनो व्यापादनाभावात् कर्मोपचयाभाव इति, तथा ईरणमीर्या - गमनं तेन जनितमीर्याप्रत्ययं तदपि कर्मोपचयं न गच्छति, प्राणिव्यापादनाभिसन्धेरभावादिति, तथा स्वप्नान्तिकं - स्वप्नप्रत्ययं कर्म नोपचीयते, यथा स्वप्नभोजने तृत्यभाव इति । तृतीयोदेशके त्वयमर्थाधिकारः, तद्यथा - आधा कर्मगतविचारस्तद्भोजिनां च दोषोपदर्शनमिति, तथा कृतवादी च भण्यते, तद्यथा- ईश्वरेण कृतोऽयं लोकः, प्रधानादिकृतो वा, यथा च ते प्रवादिन आत्मीयमात्मीयं कृतवादं गृहीलोत्थितास्तथा भण्यन्ते इति । द्वितीयोऽधिकारः, चतुर्थोद्देशकाधिकारस्त्वयं, तद्यथा - अविरतेषु - गृहस्थेषु यानि कृत्यानि - अनुष्ठानानि स्थितानि तैर संयमप्रधानैः कर्तव्यैः 'परप्रवादी' परतीर्थिक उपभीयत इति । इदानीमनुगमः, स च द्वेधा - सूत्रानुगमो निर्युक्त्यनुगमन, तत्र नियुक्त्यनुगमस्त्रिविधः, तद्यथा - निक्षेपनि र्युक्त्यनुगम उपोद्घातनिर्युक्त्यनुगमः सुत्रस्प शिंक निर्युक्त्यनुगमश्च । तत्र निक्षेपनिर्युक्त्यनुगमोऽनुगतः, ओघनामनिष्पन्न निक्षेपयोरन्तर्गतत्वात्, तथा च वक्ष्यमाणस्य सूत्रस्य निक्षेप्स्यमानत्वात् । उपोद्घातनिर्युक्त्यनुगमस्तु षड्विंशतिद्वारप्रति - पादकाद्गाथाद्वयादवसेयः, तच्चेदम्— 'उद्देसे निंदेसे य' इत्यादि । सूत्रस्पर्शिक निर्युक्त्यनुगमस्तु सूत्रे सति संभवति, सूत्रं च सुत्रागमे, स चावसर प्राप्त एव, तत्रास्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम्
Shri Maha Aradhana Kendra
www.kobatirth.org
१ पस्थिताः प्र. २ उसे निद्देसे य निम्गमे खित्त काल पुरिसे य कारण पश्चय लक्खण नए समोयारणाणुमए ||१|| किं कइविहं कस्स कहिं केसु कहं किचिरं हवइ कालं । कइसंतरमविरहिअं भवागारिस फासण निरुत्ती || २ || उद्देशो निर्देशश्व निर्गमः क्षेत्रं कालः पुरुषश्च । कारणं प्रत्ययो लक्षणं नयः समवतारोऽनुमतम् ॥१॥ किं कतिविधं कस्य व केषु कथं कियच्चिरं भवति कालम् । कति सान्तरमविरहितं भवा आकर्षा : स्पर्शना निरुक्तिः ॥ २ ॥ ३ प्रसूतिर्निर्गममित्यर्थः, मेघच्छन्ने यथा चन्द्रो, न राजति नभस्तले । उपोद्घातं विना शास्त्रं, तथा न भ्राजते विधौ ॥ १ ॥ ४ संहिता लक्षिता "संहिया य पयं चैव पयत्थो पयविग्गहो । चालणा य पसिद्धी य
For Private And Personal
anmandir