________________
Shri Mahan Aradhana Kendra
सूत्रकृताङ्गं शीलाङ्का
चाय
तियुतं
॥ ११ ॥
www.kobatirth.org
Acharya Shri Kailashsagaanmandir
| नावसरे गण्डीताडनमिति भावसमयस्तु नोआगमत इदमेवाध्ययनम्, अनेनैवात्राधिकारः, शेषाणां तु शिष्यमतिविकासार्थमुपन्यास इति ॥ २९ ॥ साम्प्रतं प्रागुपन्यस्तोद्देशार्थाधिकाराभिधित्सयाऽऽह
महपंचभूय एकपए य तज्जीवतस्सरीरे य । तहय अगारगवाती अत्तच्छट्टो अफलवादी ॥ ३० ॥ बीए नियईवाओ अण्णायि तहय नाणवाईओ । कम्मं चयं न गच्छह चउविहं भिक्खुसमयंमि ॥ ३१ ॥ तइए आहाकम्मं कडवाई जह य ते य वाईओ । किच्चुवमा य चउत्थे परप्पवाई अविरएसु ॥ ३२ ॥ अस्याध्ययनस्य चत्वार उद्देशकाः, तत्राद्यस्य षडर्थाधिकारा आद्यगाथयाऽभिहिताः, तद्यथा पञ्च भूतानि - पृथिव्यप्तेजोवाय्वाकाशाख्यानि महान्ति च तानि सर्वलोकव्यापित्वात् भूतानि च महाभूतानि इत्ययमेकोऽर्थाधिकारः । तथा चेतनाचेतनं सर्वमेवात्मविवर्त इत्यात्माऽद्वैतवादः प्रतिपाद्यत इति द्वितीयोऽर्थाधिकारः । स चासौ जीवश्च तज्जीवः - कायाकारो भूतपरिणामः, तदेव च शरीरं जीवशरीरयोरैक्यमितियावदिति तृतीयोऽर्थाधिकारः । तथाऽकारको जीवः सर्वस्याः पुण्यपापक्रियाया इत्येवंवादीति चतुर्थोऽधिकारः । तथाऽऽत्मा पष्ठ इति पश्चानां भूतानामात्मा षष्ठः प्रतिपाद्यत इत्ययं पञ्चमोऽर्थाधिकारः । तथाऽफलवादीतिन विद्यते कस्याश्चित् क्रियायाः फलमित्येवंवादी च प्रतिपाद्यत इति षष्ठोऽर्थाधिकार इति । द्वितीयोदेशके चखारोऽर्थाधिकाराः, तद्यथा-नियतिवादस्तथाऽज्ञानिकमतं ज्ञानवादी च प्रतिपाद्यते कर्म चयम् - उपचयं चतुर्विधमपि न गच्छति 'भिक्षुसमये' शाक्यागमे इति चतुर्थोऽर्थाधिकारः । चातुर्विध्यं तु कर्मणोऽविज्ञोपचितम् — अविज्ञानमविज्ञा तयोपचितम्, अनाभोगकृतमित्यर्थः, यथा मातुः स्तनाद्याक्रमणेन पुत्रव्यापत्तावप्यनाभोगान्न कर्मोपचीयते, तथा परिज्ञानं परिज्ञा - केवलेन मनसा पर्यालोचनं, तेनापि
For Private And Personal
१ समया
ध्ययने उदेशार्थाधि
काराः
॥ ११ ॥