SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra सूत्रकृताङ्गं शीलाङ्काचार्य - ि ॥११७॥ www.kobatirth.org Acharya Shri Kailashsagaanmandir आनयेति, तथाssaपस्य वृष्टेर्वा संरक्षणाय छत्रं तथा उपानहौ च ममानुजानीहि न मे शरीरमेभिर्विना वर्तते ततो ददखेति, तथा 'शस्त्रं' दात्रादिकं 'सूपच्छेदनाय' पत्रशाकच्छेदनार्थं ढौकयस्व, तथा 'वस्त्रम्' अम्बरं परिधानार्थं गुलिकादिना रञ्जय यथा आनीलम् - ईषनीलं सामस्त्येन वा नीलं भवति, उपलक्षणार्थत्वाद्रक्तं वा यथा भवतीति ॥ ९ ॥ तथा-सुष्ठु सुखेन वा फण्यते - काथ्यते तक्रादिकं यत्र तत्सुफणि-स्थालीपिठरादिकं भाजनमभिधीयते तच्छाकपाकार्थमानय, तथा 'आमलकानि' धात्री फलानि स्नानार्थ पित्तोपशमनायाभ्यवहारार्थं वा तथोदकमाहियते येन तदुदकाहरणं-कुटवर्धनिकादि, अस्य चोपलक्षणाखाद् घृततैलाद्याहरणं सर्वं वा गृहोपस्करं ढौकयस्खेति, तिलकः क्रियते यया सा तिलककरणी - दन्तमयी सुवर्णात्मिका वा शलाका यथा गोरोचनादियुक्तया तिलकः क्रियत इति, यदिवा गोरोचनया तिलकः क्रियते (इति) सैव तिलककरणीत्युच्यते, तिलका वा क्रियन्ते - पिष्यन्ते वा यत्र सा तिलककरणीत्युच्यते, तथा अञ्जनं-सौवीरकादि शलाका- अक्ष्णोरञ्जनार्थ शलाका अञ्जनशलाका तामाहरेति । तथा 'ग्रीष्मे' उष्णाभितापे सति 'मे' मम विधूनक' व्यजनकं विजानीहि ॥ १० ॥ एवं| संडासगं च फणिहं च, सीहलिपासगं च आणाहि । आदंसगं च पयच्छाहि, दंतपक्खालणं पवेसाहि ॥११॥ पूयफलं तंबोलयं, सूईसुत्तगं च जाणाहि । कोसं च मोयमेहाए, सुप्पुक्खलगं च खारगालणं च ॥१२॥ ‘संडासकं' नासिकाकेशोत्पाटनं 'फणिहं' केशसंयमनार्थं कङ्कतकं, तथा 'सीह लिपासगं ति वीणा संयमनार्थमूर्णामयं क ङ्कणं च 'आनय' ढौकयेति, एवम् आ - समन्तादृश्यते आत्मा यस्मिन् स आदर्श स एव आदर्शकस्तं 'प्रयच्छ' ददखेति, तथा For Private And Personal ४ स्त्रीपरिज्ञाध्य. उद्देशः २ ॥११७॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy