SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ Shri Mahaviradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsanmandir अथशब्दोऽधिकारान्तरप्रदर्शनार्थः पूर्वं लिङ्गस्थोपकरणान्यधिकृत्याभिहितम् अधुना गृहस्थोपकरणान्यधिकृत्याभिधीयते, तद्यथा- 'अंजणिमिति अञ्जणिकां कजलाधारभूतां नलिकां मम प्रयच्छखेत्युत्तरत्र क्रिया, तथा कटककेयूरादिकमलङ्कारं वा, तथा 'कुक्कययं' ति खुखुणकं 'मे' मम प्रयच्छ, येनाहं सर्वालङ्कारविभूषिता वीणाविनोदेन भवन्तं विनोदयामि, तथा लोध्रं च लोधकुसुमं च, तथा 'वेणुपलासियं' ति वंशात्मिका लक्ष्णलक काष्ठिका, सा दन्तैर्वामहस्तेन प्रगृह्य दक्षिणहस्तेन वीणावद्वाद्यते, तथैौषधगुटिकां तथाभूतामानय येनाहमविनष्टयौवना भवामीति ॥ ७ ॥ तथा कुष्ठम् - उत्पलकुष्ठं तथाऽगरं तगरं च एते द्वे अपि गन्धिकद्रव्ये, एतत्कुष्ठादिकम् 'उशीरेण' वीरणीमूलेन सम्पिष्टं सुगन्धि भवति यतस्तत्तथा कुरु, तथा 'तैलं' लोधकुङ्कुमादिना संस्कृतं मुखमाश्रित्य 'भिजिए' त्ति अभ्यङ्गाय ढौकयख, एतदुक्तं भवति-मुखाभ्यङ्गार्थं तथाविधं संस्कृतं तैलमुपाहरेति, | येन कान्त्युपेतं मे मुखं जायते, 'वेणुफलाई 'ति वेणुकार्याणि करण्डकपेटुकादीनि सन्निधिः सन्निधानं - वस्त्रादेर्व्यवस्थापनं तदर्थ - मानयेति ॥ ८ ॥ किञ्च - | नंदीचुण्णगाईं पाहराहि, छत्तोवाणहं च जाणाहि । सत्थं च सूवच्छेजाए, आणीलं च वत्थयं रयावे हि ॥ ९ ॥ | सुफणिं च सागपागाए, आमलगाई दगाहरणं च । तिलगकरणिमंजणस लागं, घिसु मे विहूणयं विजाणेहि ॥ 'नन्दीचुणगाई' ति द्रव्यसंयोगनिष्पादितोष्ठम्रक्षणचूर्णोऽभिधीयते तमेवम्भूतं चूर्ण प्रकर्षेण येन केनचित्प्रकारेण 'आहर' १ कुक्कुइयं प्र० । २ भिजाए । भिंडलिंजाए० प्र० । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy