________________
Shri Maha
r adhana Kendra
www.kcbatirth.org
Acharya Shri Kailasha
y amandir
ओए सया ण रज्जेज्जा, भोगकामी पुणो विरज्जेजा।भोगे समणाण सुणेह, जह भुंजंति भिक्खुणो एगे॥१॥ अह तंतु भेदमावन्नं,मुच्छितं भिक्खुं काममतिवह। पलिभिंदिया णं तो पच्छा,पादुदु मुद्धि पहणंति॥२॥ al अस्य चानन्तरपरम्परसूत्रसम्बन्धो वक्तव्यः, स चायं सम्बन्धो-विषयपाशैर्मोहमागच्छति यतोऽत 'ओज' एको रागद्वेषवियुतः || स्त्रीषु रागं न कुर्यात् , परम्परसूत्रसम्बन्धस्तु संलोकनीयमनगारं दृष्ट्वा च यदि काचिद्योषित् साधुमशनादिना नीवारकल्पेन || प्रतारयेत् तत्रौजः सन्न रज्येतेति, तत्रौजो द्रव्यतः परमाणुः भावतस्तु रागद्वेषवियुतः, स्त्रीषु रागादिहैव वक्ष्यमाणनीत्या नाना-12 विधा विडम्बना भवन्ति तत्कृतश्च कर्मबन्धः तद्विपाकाचामुत्र नरकादौ तीव्रा वेदना भवन्ति यतोऽत एतन्मखा भावौजः सन् 'सदा सर्वकालं ताखनर्थखनिषु स्त्रीषु न रज्येत, तथा यद्यपि मोहोदयात भोगाभिलाषी भवेत तथाप्यहि कामुष्मिकापायान् परिगणय्य पुनस्ताभ्यो विरज्येत, एतदुक्तं भवति-कर्मोदयात्प्रवृत्तमपि चित्तं हेयोपादेयपर्यालोचनया ज्ञानाङ्कुशेन निवर्तयेदिति, तथा श्राम्यन्ति-तपसा खिद्यन्तीति श्रमणास्तेषामपि भोगा इत्येतच्छृणुत यूयं, एतदुक्तं भवति-गृहस्थानामपि भोगा विडम्बनाप्राया यतीनां तु भोगा इत्येतदेव विडम्बनाप्रायं, किं पुनस्तत्कृतावस्थाः, तथा चोक्तम्- "मुण्डं शिर" इत्यादि पूर्ववत् , तथा| यथा च भोगान् 'एके' अपुष्टधर्माणो 'भिक्षवो यतयो विडम्बनाप्रायान् भुञ्जते तथोद्देशकसूत्रेणैव वक्ष्यमाणेनोत्तरत्र महता प्रबन्धेन दर्शयिष्यति, अन्यैरप्युक्तम्-"कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलः, क्षुधाक्षामो जीणे: पिठरककपालादित
१०लार्पितगलः प्र० वि०प०।
For Private And Personal