SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagar Gyanmandir |सह 'संस्तर्व' तद्गृहगमनालापदान सम्प्रेक्षणादिरूपं परिचयं तथाविधमोहोदयात् 'कुर्वन्ति' विदधति, किम्भूताः ? - प्रकर्षेण भ्रष्टा:स्खलिताः 'समाधियोगेभ्यः समाधिः- धर्मध्यानं तदर्थं तत्प्रधाना वा योगा- मनोवाक्कायव्यापारास्तेभ्यः प्रच्युताः शीतल| विहारिण इति यस्मात् स्त्रीसंस्तवात्समाधियोगपरिभ्रंशो भवति तस्मात्कारणात् 'श्रमणाः' सत्साधवो 'न समेन्ति' न गच्छन्ति, | सत् शोभना सुखोत्पादकतयाऽनुकूलवान्निषद्या इव निषद्या स्त्रीभिः कृता माया, यदिवा स्त्रीवसतीरिति, 'आत्महिताय' खहितं | मन्यमानाः, एतच्च स्त्रीसम्बधपरिहरणं तासामप्यैहिकामुष्मिकापायपरिहाराद्धितमिति, क्वचित्पश्चार्द्धमेवं पठ्यते - " तम्हा समणा उ | जहाहि अहिताओ सन्निसेज्जाओ" अयमस्यार्थः - यस्मात्स्त्रीसम्बन्धोऽनर्थाय भवति, तस्मात् हे श्रमण ! - साधो !, तुशब्दो | विशेषणार्थः, विशेषेण संनिषद्या - स्त्रीवसतीस्तत्कृतोपचाररूपा वा माया आत्महिताद्धेतोः 'जहाहि ' परित्यजेति ॥ १६ ॥ किं | केचनाभ्युपगम्यापि प्रव्रज्यां स्त्रीसम्बन्धं कुर्युः १, येनैवमुच्यते, ओमित्याह | बहवे गिहाई अवहद्दु, मिस्सीभावं पत्थुया य एगे । धुवमग्गमेव पवयंति, वायावीरियं कुसीलाणं ॥ १७ ॥ | सुद्धं रवति परिसाए, अह रहस्संमि दुक्कडं करेंति । जाणंति, य णं तहाविहा, माइल्ले महासढेऽयंति ॥१८॥ १ सदिति शोभनः पा० । २ पण्णता पा० । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy