________________
Shri Mahavidy
adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
a nmanair
कश्चिद्विपमिश्रं भोजनं भुक्खा पश्चात्तत्र कृतावेगाकुलितोऽनुतप्यते, तद्यथा-किमेतन्मया पापेन साम्प्रतेक्षिणा सुखरसिकतया वि-| पाककटुकमेवम्भूतं भोजनमाखादितमिति, एवमसावपि पुत्रपौत्रदुहितृजामातृवसभ्रातृव्यभागिनेयादीनां भोजनपरिधानपरिणयनालङ्कारजातमृतकर्मतयाधिचिकित्साचिन्ताकुलोऽपगतस्वशरीरकर्तव्यः प्रनष्टैहिकामुष्मिकानुष्ठानोऽहर्निशं तद्व्यापारव्याकुलितमतिः परितप्यते, तदेवं अनन्तरोक्तया नीत्या विपाकं खानुष्ठानस्य 'आदाय' प्राप्य, विवेकमिति वा कचित्पाठः, तद्विपार्क विवेक वा 'आदाय'-गृहीखा स्त्रीभिश्चारित्रपरिपन्थिनीभिः सार्ध 'संवासो' वसतिरेकत्र 'न कल्पते न युज्यते, कसिन्-'द्रव्यभूते' मुक्तिगमनयोग्ये रागद्वेपरहित वा साधौ, यतस्ताभिः साध संवासोऽवश्यं विवेकिनामपि सदनुष्ठानविघातकारीति ॥१०॥ स्त्रीसम्बन्धदोपानुपदर्योपसंहरनाह
तम्हा उ वजए इत्थी, विसलित्तं व कंटगं नच्चा।ओए कुलाणि वसवत्ती, आघाते ण सेवि णिग्गंथे॥११॥ 81 जे एयं उंछं अणुगिद्धा, अन्नयरा हुंति कुसीलाणं।सुतवस्सिएवि से भिक्खू, नो विहरे सह णमित्थीसु।१२।।
यसात् विपाककटुः स्त्रीभिः सह सम्पर्कस्तस्मात्कारणात् स्त्रियो वर्जयेत् तुशब्दात्तदालापमपि न कुर्यात् , किंवदित्याह-विषोपलिप्तं कण्टकमिव 'ज्ञात्वा' अवगम्य स्त्रियं वर्जयेदिति, अपिच-विषदिग्धकण्टकः शरीरावयवे भग्नः सन्ननर्थमापादयेत स्त्रियस्तु सरणादपि, तदुक्तम्-"विषस्य विषयाणां च, दूरमत्यन्तमन्तरम् । उपभुक्तं विषं हन्ति, विषयाः सरणादपि ॥१॥"
For Private And Personal