________________
Shri Mandal Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailash
Gyanmandir
Seeeeeeeeeeeeeeeeeeeeeeeeeeee
एव श्रेयानिति । एवं यदुक्तं 'स्त्रीपरिक्षेति तत्पुरुषोत्तमधर्मप्रतिपादनार्थम् , अन्यथा 'पुरुषपरिज्ञे'त्यपि वक्तव्येति, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्जे मायरं च पियरं च, विप्पजहाय पुवसंजोगं । एगे सहिते चरिस्सामि, आरतमेहुणो विवित्तेसु ॥१॥ सुहुमेणं तं परिकम्म, छन्नपएण इथिओ मंदा। उवायपि ताउ जाणंसु जहा लिस्संति भिक्खुणो एगे॥२॥
अस्य चायमनन्तरसूत्रेण सह सम्बन्धः, तद्यथा-अनन्तरमूत्रेभिहितम् , आमोक्षाय परिव्रजेदिति, एतचाशेषाभिष्वङ्गवर्जितस्य भवतीत्यतोऽनेन तदभिष्वङ्गवर्जनमभिधीयते, 'य' कश्चिदुत्तमसच्चो 'मातरं पितरं जननी जनयितारम्, एतद्ग्रहणादन्यदपि भ्रातृपुत्रादिकं पूर्वसंयोगं तथा श्वश्रूश्वशुरादिकं पश्चात्संयोगं च 'विप्रहाय' त्यक्ता, चकारौ समुच्चयार्थी, 'एको' मातापित्राद्य|| भिष्वङ्गवर्जितः कषायरहितो वा तथा सहितो ज्ञानदर्शनचारित्रैः स्वमै वा हितः स्वहितः-परमार्थानुष्ठान विधायी 'चरिष्यामि || संयम करिष्यामीत्येवं कृतप्रतिज्ञः, तामेव प्रतिज्ञा सर्वप्रधानभूतां लेशतो दर्शयति-'आरतम्' उपरतं मैथुनं-कामाभिलाषो यस्यासावारतमैथुनः, तदेवम्भूतो 'विविक्तेषु' स्त्रीपशुपण्डकवर्जितेषु स्थानेषु चरिष्यामीत्येवं सम्यगुत्थानेनोत्थाय विहरतीति, कचित्पाठो 'विवित्तेसित्ति' 'विविक्तं'-स्त्रीपण्डकादिरहितं स्थानं संयमानुपरोध्येषितुं शीलमस्य तथेति ॥ १ ॥ तस्यैवं कृतप्रतिज्ञस्य साधोर्यद्भवत्यविवेकिस्त्रीजनात्तदर्शयितुमाह-'सुहमेणं' इत्यादि, 'तं' महापुरुषं साधु 'सूक्ष्मेण' अपरकार्यव्यप|देशभूतेन 'छन्नपदेने ति छद्मना-कपटजालेन 'पराक्रम्य' तत्समीपमागत्य, यदिवा-'पराक्रम्येति शीलस्खलनयोग्यतापत्त्या
Receeeeeeeeeeeeeeecene
For Private And Personal