SearchBrowseAboutContactDonate
Page Preview
Page 235
Loading...
Download File
Download File
Page Text
________________ Shri Ma r adhana Kendra www.kobatirth.org Acharya Shri Kailash a nmandir तत्थ मंदा विसीअंति, वाहच्छिन्ना व गद्दभा। पिट्टतो परिसप्पंति, पिट्टसप्पी य संभमे ॥५॥ इहमेगे उ भासंति, सातं सातेण विजती । जे तत्थ आरियं मगं, परमं च समाहिए(यं)॥६॥ 'तत्र' तस्मिन् कुश्रुत्युपसर्गोदये 'मन्दा' अशा नानाविधोपायसाध्यं सिद्धिगमनमवधार्य विषीदन्ति संयमानुष्ठाने, न पु-18 | नरेतद्विदन्त्यज्ञाः, तद्यथा-येषां सिद्धिगमनमभूत् तेषां कुतश्चिन्निमित्तात् जातजातिसरणादिप्रत्ययानामवाप्तसम्यग्ज्ञानचारित्राणा| मेव वल्कलचीरिप्रभृतीनामिव सिद्धिगमनमभूत , न पुनः कदाचिदपि सर्वविरतिपरिणामभावलिङ्गमन्तरेण शीतोदकबीजाद्युपभो| गेन जीवोपमर्दप्रायेण कर्मक्षयोऽवाप्यते, विषीदने दृष्टान्तमाह-वहनं वाहो-भारोद्वहनं तेन छिन्नाः-कर्षिताखुटिता रासभा ४ इव विषीदन्ति, यथा-रासभा गमनपथ एव प्रोज्झितभारा निपतन्ति, एवं तेऽपि प्रोश्य संयमभारं शीतलविहारिणो भवन्ति, | दृष्टान्तान्तरमाह-यथा 'पृष्ठसर्पिणो' भग्नगतयोग्यादिसम्भ्रमे सत्युभ्रान्तनयनाः समाकुलाः प्रनष्टजनस्य 'पृष्ठतः' पश्चात्प रिसर्पन्ति नाग्रगामिनो भवन्ति, अपि तु तत्रैवाम्यादिसम्भ्रमे विनश्यन्ति, एवं तेऽपि शीतलविहारिणो मोक्षं प्रति प्रवृत्ता अपि तु न मोक्षगतयो भवन्ति अपि तु तस्मिन्नेव संसारे अनन्तमपि कालं यावदासत इति ॥ ५॥ मतान्तरं निराकर्तुं पूर्वपक्षयितुमाह|'इहेति मोक्षगमनविचारप्रस्तावे 'एके' शाक्यादयः खयूथ्या वा लोचादिनोपतप्ताः, तुशब्दः पूर्वस्मात् शीतोदकादिपरिभोगाद्विशेषमाह, 'भाषन्ते' बुवते मन्यन्ते वा कचित्पाठः, किं तदित्याह-'सात' सुखं 'सातेन' सुखेनैव 'विद्यते' भवतीति, तथा च वक्तारो भवन्ति-"सर्वाणि सत्त्वानि सुखे रतानि, सर्वाणि दुःखाच समुद्विजन्ते । तस्मात्सुखार्थी सुखमेव दद्यात्, सु Keeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy