SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययतियुतं ॥९६॥ www.kobatirth.org Acharya Shri Kailashsaur Gyanmandir | खप्रदाता लभते सुखानि ॥ १ ॥ " युक्तिरप्येवमेव स्थिता, यतः कारणानुरूपं कार्यमुत्पद्यते, तद्यथा - शालिबीजाच्छाल्यङ्कुरो | जायते न यवाङ्कुर इत्येवमिहत्यात् सुखान्मुक्तिसुखमुपजायते, न तु लोचादिरूपात् दुःखादिति, तथा सागमोऽप्येवमेव व्यव - स्थितः - "मणुण्णं भोयणं भोच्चा, मणुण्णं सयणासणं । मणुष्णंसि अगारंसि, मणुष्णं झायए मुणी ॥ १ ॥ " तथा " मृद्वी शय्या प्रातरुत्थाय पेया, भक्तं मध्ये पानकं चापरा । द्राक्षाखण्डं शर्करा चार्द्धरात्रे, मोक्षथान्ते शाक्यपुत्रेण दृष्टः ॥ १ ॥ " इत्यतो | मनोज्ञाहार विहारादेश्चित्तस्वास्थ्यं ततः समाधिरुत्पद्यते समाधेव युक्त्यवाप्तिः, अतः स्थितमेतत् - सुखेनैव सुखावाप्तिः न पुनः कदा चनापि लोचादिना कायक्लेशेन सुखावाप्तिरिति स्थितं, इत्येवं व्यामूढमतयो ये केचन शाक्यादय: 'तत्र' तस्मिन्मोक्षविचारप्रस्तावे समुपस्थिते आराद्यातः सर्वहेयधर्मेभ्य इत्यार्यो मार्गो जैनेन्द्रशासन प्रतिपादितो मोक्षमार्गस्तं ये परिहरन्ति तथा च - | 'परमं च समाधिं' ज्ञानदर्शनचारित्रात्मकं ये त्यजन्ति तेऽज्ञाः संसारान्तर्वर्तिनः सदा भवन्ति, तथाहि — यत्तैरभिहितंकारणानुरूपं कार्यमिति, तन्नायमेकान्तो, यतः शृङ्गाच्छरो जायते गोमयाद्वृश्चिको गोलोमाविलोमादिभ्यो दुर्वेति यदपि मनो| ज्ञाहारादिकमुपन्यस्तं सुखकारणत्वेन तदपि विशुचिकादिसंभवाव्यभिचारीति, अपिच - इदं वैषयिकं सुखं दुःखप्रतीकारहेतुत्वात् सुखाभास तया सुखमेव न भवति, तदुक्तम् — “दुःखात्मकेषु विषयेषु सुखाभिमानः, सौख्यात्मकेषु नियमादिषु दुःखबुद्धिः । | उत्कीर्णवर्णपदपङ्किरिवान्यरूपा, सारूप्यमेति विपरीतगतिप्रयोगात् ॥ १ ॥ " इति कुतस्तत्परमानन्दरूपस्यात्यन्तिकैकान्ति| कस्य मोक्षसुखस्य कारणं भवति, यदपि च लोचभूशयनभिक्षाटनपरपरिभवक्षुत्पिपासादंशमशकादिकं दुःखकारणत्वेन भवतो - १ मनोज्ञं भोजनं भुक्त्वा मनोज्ञे शयनासने । मनोज्ञेऽगारे मनोज्ञं ध्यायेन्मुनिः ॥ १ ॥ For Private And Personal ३ उपस गोध्य० उद्देशः ४ ॥ ९६ ॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy