________________
Shri Maha Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa aul Gyanmandir
अथ तृतीयोपसर्गाध्ययने चतुर्थोद्देशकस्य प्रारम्भः ॥
उक्तस्तृतीयोदेशकः, साम्प्रतं चतुर्थः समारभ्यते - अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके अनुकूल प्रतिकूलोपसर्गाः प्रति| पादिताः, तैश्व कदाचित्साधुः शीलात् प्रच्याव्येत — तस्य च स्खलितशीलस्य प्रज्ञापनाऽनेन प्रतिपाद्यते इति, अनेन सम्बन्धेना|यातस्यास्योद्देशकस्यादिमं सूत्रम् -
आहंसु महापुरिसा, पुत्रिं तत्ततवोधणा । उदएण सिद्धिमावन्ना, तत्थ मंदो विसीयति ॥ १ ॥ अभुंजिया नमी विदेही, रामगुत्ते य भुंजिआ । बाहुए उदगं भोच्चा, तहा नारायणे रिसी ॥ २ ॥ केचन अविदितपरमार्था 'आहुः उक्तवंतः, किं तदित्याह-यथा 'महापुरुषाः ' प्रधानपुरुषा वल्कलचीरितारागणर्षिप्रभृतय: 'पूर्व' पूर्वस्मिन् काले तप्तम् - अनुष्ठितं तप एव धनं येषां ते तप्ततपोधनाः – पञ्चाग्यादितपोविशेषेण निष्टप्तदेहाः, त | एवम्भूताः शीतोदकपरिभोगेन, उपलक्षणार्थत्वात् कन्दमूलफलाद्युपभोगेन च 'सिद्धिमापन्नाः' सिद्धिं गताः, 'तत्र' एवम्भूतार्थसमाकर्णने तदर्थसद्भावावेशात् 'मन्द:' अज्ञोऽस्नानादित्याजितः प्रासुकोदकपरिभोगभग्नः संयमानुष्ठाने विषीदति, यदिवा तत्रैव | शीतोदकपरिभोगे विषीदति लगति निमज्जतीतियावत्, न त्वसौ वराक एवमवधारयति, यथा- तेषां तापसादिवतानुष्ठायिनां
For Private And Personal
2023 20200/