________________
Shri Maharadhana Kendra
सूत्रकृताङ्ग
शीलाङ्काचार्ययतियुत
॥ ९४ ॥
www.kobatirth.org
गच्छेत्, तेन पराविरोधकारणेन तत्तदविरुद्धमनुष्ठानं वचनं वा 'समाचरेत्' कुर्यादिति ।। १९ ।। तदेवं परमतं निराकृत्योपसं| हारद्वारेण स्वमतस्थापनायाह - 'इम' मिति वक्ष्यमाणं दुर्गतिधारणाद्धर्मम् 'आदाय' उपादाय गृहीला 'काश्यपेन' श्रीमन्महावीरवर्द्धमानखामिनोत्पन्नदिव्यज्ञानेन सदेवमनुजायां पर्षदि प्रकर्षेण – यथावस्थितार्थनिरूपणद्वारेण वेदितं प्रवेदितं चशब्दा| त्परमतं च निराकृत्य, भिक्षणशीलो भिक्षुः 'ग्लानस्य' अपटोरपरस्य भिक्षोवैयावृत्त्यादिकं कुर्यात् कथं कुर्याद् १, एतदेव विशिनष्टि - स्वतोऽप्यग्लानतया यथाशक्ति 'समाहितः' समाधिं प्राप्त इति, इदमुक्तं भवति - यथा यथाऽऽत्मनः समाधिरुत्पद्यते न तत्करणेन अपाटवसंभवात् योगा विषीदन्तीति, तथा यथा तस्य च ग्लानस्य समाधिरुत्पद्यते तथा पिण्डपातादिकं विधेयमिति | ॥ २० ॥ किं कृत्वैतद्विधेयमिति दर्शयितुमाह - 'संखाये' त्यादि, संख्याय - ज्ञात्वा कं ?- 'धर्म' सर्वज्ञप्रणीतं श्रुतचारित्राख्य| भेदभिन्नं 'पेशलम्' इति सुलिष्टं प्राणिनामहिंसादिप्रवृत्त्या प्रीतिकारणं, किम्भूतमिति दर्शयति-दर्शनं दृष्टिः सद्भूतपदार्थगता | सम्यग्दर्शनमित्यर्थः सा विद्यते यस्यासौ दृष्टिमान् यथावस्थितपदार्थपरिच्छेदवानित्यर्थः, तथा 'परिनिर्वृतो' रागद्वेषविरहाच्छान्तीभूतस्तदेवं धर्मं पेशलं परिसंख्याय दृष्टिमान् परिनिर्वृत उपसर्गाननुकूल प्रतिकूलान्नियम्य - संयम्य सोढा, नोपसर्गैरुपसर्गितोऽ| समञ्जसं विदध्यादित्येवम् 'आमोक्षाय' अशेषकर्मक्षयप्राप्तिं यावत् परि - समन्तात् व्रजेत् – संयमानुष्ठानोद्युक्तो भवेत् परिव्रजेदू, इतिः परिसमाप्त्यर्थे ब्रवीमीति पूर्ववत् ॥ २१ ॥ उपसर्गपरिज्ञायास्तृतीयोदेशकः समाप्तः ॥ ३ ॥
-००००
Acharya Shri Kailashsadan Gyanmandir
For Private And Personal
३. उपस
गोध्य०
उद्देशः ३
॥ ९४ ॥