________________
Shri Maha
r adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsa
yanmandir
दृष्टय आक्रोशादिकं शरणमाश्रयन्ते, न च ते इदमाकलय्य प्रत्याक्रोष्टव्याः, तद्यथा-"अक्कोसहणणमारणधम्मभंसाण बालसु-12 लभाणं । लाभं मन्नइ धीरो जहुत्तराणं अभावंमि ॥ १॥" ॥ १८ ॥ किश्चान्यत्
बहुगुणप्पगप्पाइं, कुजा अत्तसमाहिए । जेणन्ने णो विरुज्झेजा, तेण तं तं समायरे ॥ १९ ॥ इमं च धम्ममादाय, कासवेण पवेइयं । कुज्जा भिक्खू गिलाणस्स, अगिलाए समाहिए ॥ २० ॥ संखाय पेसलं धम्म,, दिदिमं परिनिव्वुडे। उवसग्गे नियामित्ता, आमोक्खाए परिवएजाऽसि ॥२१॥
त्तिबेमि । इति ततीयअज्झयणस्स तईओ उद्देसो समत्तो ॥ (गाथागं० २३४) 'बहवो गुणाः' खपक्षसिद्धिपरदोषोद्भावनादयो माध्यस्थ्यादयो वा प्रकल्पन्ते-प्रादुर्भवन्त्यात्मनि येष्वनुष्ठानेषु तानि बहुगुणप्रकल्पानि-प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनादीनि माध्यस्थ्यवचनप्रकाराणि वा अनुष्ठानानि साधुर्वादकाले अन्यदा वा 'कुर्यात्' विदध्यात् , स एव विशिष्यते-आत्मनः 'समाधिः' चित्तस्वास्थ्यं यस्य स भवत्यात्मसमाधिकः, एतदुक्तं भवतियेन येनोपन्यस्तेन हेतुदृष्टान्तादिना आत्मसमाधिः-वपक्षसिद्धिलक्षणो माध्यस्थ्यवचनादिना वा परानुपघातलक्षणः समुत्पद्यते तत् तत् कुर्यादिति, तथा येनानुष्ठितेन वा भाषितेन वा अन्यतीर्थिको धर्मश्रवणादौ वाऽन्यः प्रवृत्तो 'न विरुध्येत' न विरोधं १ आक्रोशहननमारणधर्मभ्रंशानां बालसुलभाना (मध्ये)। लाभं मन्यते धीरो यथोत्तराणामभावे ॥१॥
For Private And Personal