________________
Shri Mahavir Jain Aradhana Kendra
www.kabatirth.org
Acharya Shri Kailashsa
ganmandir
प्रत्येकं पञ्चमपतो न्यस्याः यावद्विशत्युत्तरं शतमिति, तदधौऽग्रतो न्यस्तमई मुक्खा येऽन्ये तेषां यो यो महत्संख्यः स सोऽधस्ताच्चKK तुर्विंशतिसंख्य एव तावत् न्यस्यो यावत्सप्त शतानि विंशत्युत्तराणि पञ्चमपत्रावपि पूर्णानि भवन्ति, एषा च गणितप्रक्रिययैवान्त्योहाऽभिधीयते, एवमनया प्रक्रियया चतुर्विशतेः शेषचतुष्ककेन भागे हृते षट् लभ्यन्ते, तावन्तश्चतुर्थपतौ चतुष्ककाः स्थाप्याः, तदधः 1 पट् त्रिकाः पुनर्द्विका भूय एककाः पुनः पूर्वन्यायेन पक्तिः पूरणीया, पुनः षट्कस्य शेषत्रिकेण भागे हृते द्वौ लभ्येते, तावन्मात्रौ
त्रिको तृतीयपतो, शेषं पूर्ववत , शेषपसिद्धये शेषमङ्कद्वयं क्रमोत्क्रमाभ्यां व्यवस्थाप्यमिति १२३४, २१३४, १३२४, ३१२४, २३१४, ३२१४, १२४३, २१४३, १४२३, ४१२३, २४१३,४२१३,१३४२, ३१४२, १४३२, ४१३२,३४१२, ४३१२, २३४१, ३२४१, २४३१, ४२३१, ३४२१, ४३२१ । तथा नाम्नि पविधनाम्यवतरति, यतस्तत्र पइ भावाः प्ररूप्यन्ते,श्रुतस्य च
क्षायोपशमिकभाववर्तिखात् । प्रमाणमधुना-प्रमीयतेऽनेनेति प्रमाणं, तत् द्रव्यक्षेत्रकालभावभेदाच्चतुर्दा, तत्रासाध्ययनस्य क्षायोपशशमिकभावव्यवस्थितखाद्भावप्रमाणेऽवतारः, भावप्रमाणं च गुणनयसंख्याभेदात्रिधा, तत्रापि गुणप्रमाणे समवतारः,तदपि जीवाजीवमे
दाद् द्विधा, समयाध्ययनस्य च क्षायोपशमिकभावरूपखात् तस्य चजीवानन्यत्वाज्जीवगुणप्रमाणे समवतारः, जीवगुणप्रमाणमपि ज्ञानदर्शनचारित्रभेदात्रिविधं, तत्रास्य बोधरूपत्वात् ज्ञानगुणप्रमाणे समवतारः, तदपि प्रत्यक्षानुमानोपमानागमभेदाच्चतुर्दा, तत्रास्यागमप्रमाणे समवतारः, सोपि लौकिकलोकोत्तरभेदादू द्विधा, तदस लोकोत्तरे समवतारः, तस्य च सूत्रार्थतदुभयरूपत्वात्रैविध्यं, (अस्य त्रिरूपत्वात्) त्रिष्वपि समवतारः, यदिवा-आत्मानन्तरपरम्परभेदादागमस्त्रिविधः, तत्र तीर्थकृतामर्थापेक्षयाऽऽत्मागमो गणधराणामनन्तरागमस्तच्छिष्याणां परम्परागमः, सूत्रापेक्षया तु गणधराणामात्मागमस्तच्छिष्याणामनन्तरागमस्तदन्येषां परम्परागमः,
eeeeeeeeeeeeeee
599090020299999999
For Private And Personal