SearchBrowseAboutContactDonate
Page Preview
Page 223
Loading...
Download File
Download File
Page Text
________________ Shri Maha r adhana Kendra www.kobatirth.org Acharya Shri Kailashsager a nmandir "उपशमफलाद्विद्यावीजात्फलं धनमिच्छता, भवति विफलो यद्यायासस्तदत्र किमद्भुतम् ? । न नियतफलाः कर्तुर्भावाः फलान्त-12 रमीशते, जनयति खलु व्रीहे/जं न जातु यवाङ्कुरम् ॥१॥ इति" ॥ ४ ॥ उपसंहारार्थमाह इच्चेव पडिलेहंति, वलया पडिलेहिणो । वितिगिच्छसमावन्ना, पंथाणं च अकोविया ॥५॥ जे उ संगामकालंमि, नाया सूरपुरंगमा । णो ते पिटुमुवेहिति, किं परं मरणं सिया ? ॥६॥ 'इत्येवमिति पूर्वप्रक्रान्तपरामर्शार्थः, यथा भीरवः सङ्ग्रामे प्रविविक्षवो वलयादिकं प्रति उपेक्षिणो भवन्तीति, एवं प्रव्रजिता मन्दभाग्यतया अल्पसवा आजीविकाभयाद्याकरणादिकं जीवनोपायखेन 'प्रत्युपेक्षन्ते' परिकल्पयन्ति, किम्भूताः-विचिकि-14 त्सा-चित्तविप्लतिः किमेनं संयमभारमुत्क्षिप्तमन्तं नेतुं वयं समर्थाः उत नेतीत्येवम्भूता, तथा चोक्तम्-"लुक्खमणुण्हमणिययं | कालाइक्तभोयणं विरसं । भूमीसयणं लोओ असिणाणं बंभचेरं च ॥१॥" तां समापन्नाः-समागताः, यथा पन्थानं प्रति | 'अकोविदा' अनिपुणाः, किमयं पन्था विवक्षितं भूभागं यास्यत्युत नेतीत्येवं कृतचित्तविप्लतयो भवन्ति, तथा तेऽपि संयम| भारवहनं प्रति विचिकित्सां समापन्ना निमित्तगणितादिकं जीविकार्थ प्रत्युपेक्षन्त इति ॥५॥ साम्प्रतं महापुरुषचेष्टिते दृष्टान्त माह-ये पुनर्महासत्त्वाः, तुशब्दो विशेषणार्थः 'सङ्क्रामकाले' परानीकयुद्धावसरे 'ज्ञाता लोकविदिताः, कथम् ?-'शूरपुररङ्गमाः शूराणामग्रगामिनो युद्धावसरे सैन्याग्रस्कन्धवर्तिन इति, त एवम्भूताः सङ्ग्रामं प्रविशन्तो 'न पृष्ठमुत्प्रेक्षन्ते' न दुगों १ कर्तुं भा० प्र० । २ रूक्षमनुष्णमनियतं काला तिक्रान्तं भोजनं विरसम् । भूमिशयनं लोचोऽस्नानं ब्रह्मचर्यं च ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy