________________
Shri Maha
v adhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage vibyanmandir
जहा संगामकालंमि, पिट्ठतो भीरु वेहइ । वलयं गहणं णूम, को जाणइ पराजयं ? ॥ १॥ मुहुत्ताणं मुहुत्तस्स, मुहुत्तो होइ तारिसो। पराजियाऽवसप्पामो, इति भीरू उवेहई ॥२॥ दृष्टान्तेन हि मन्दमतीनां सुखेनैवार्थावगतिर्भवतीत्यत आदावेव दृष्टान्तमाह-यथा कश्चिद् ‘भीरुः' अकृतकरणः 'संग्राम-19 काले' परानीकयुद्धावसरे समुपस्थिते 'पृष्ठतः प्रेक्षते' आदावेवापत्प्रतीकारहेतुभूतं दुर्गादिकं स्थानमवलोकयति । तदेव दर्श-19 यति-'वलय'मिति यत्रोदकं वलयाकारण व्यवस्थितम उदकरहिता वा गर्ता दाखनिर्गमप्रवेशा, तथा 'गहन' धवादिवृक्षः। | केटिसंस्थानीयं ‘णूमति प्रच्छन्नं गिरिगुहादिकं, किमित्यसावेवमवलोकयति ?, यत एवं मन्यते तत्रैवम्भूते तुमुले सङ्ग्रामे सुभट-191 | सङ्कले को जानाति कस्यात्र पराजयो भविष्यतीति ?, यतो दैवायत्ताः कार्यसिद्धयः, स्तोकैरपि बहवो जीयन्त इति ॥१॥ किञ्च-191 मुहूर्तानामेकस्य वा मुहूर्तस्यापरो 'मुहूर्तः' कालविशेषलक्षणोऽवसरस्तादृग् भवति यत्र जयः पराजयो वा सम्भाव्यते, तत्रैवं व्यवस्थिते पराजिता वयम् 'अवसामो' नश्याम इत्येतदपि सम्भाव्यते असद्विधानामिति भीरुः पृष्ठत आपत्प्रतीकारार्थ | शरणमुपेक्षते ॥ २॥ इति श्लोकद्वयेन दृष्टान्तं प्रदर्य दार्टान्तिकमाह
१ कण्टिसं० प्र० २ युद्धविषयत्वात् मायोपेक्षेन्द्र जालानि क्षुद्रोपाया इमे त्रय इति श्रीहेमचन्द्रवचनादत्र क्षुद्रोपायपर उपेक्षिः
For Private And Personal