SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Adhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir यिषिताः, ते चानुकूलाः प्रतिकूलाश्च तत्र प्रथमोद्देशके प्रतिकूलाः प्रतिपादिताः, इह त्वनुकूलाः प्रतिपाद्यन्त इत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्याऽऽदिसूत्रम् अहि हुमा संगा, भिक्खुणं जे दुरुत्तरा । जत्थ एगे विसीयंति, ण चयंति जवित्त ॥ १ ॥ अप्पेगे नायओ दिस्स, रोयंति परिवारिया । पोस णे ताय ! पुट्ठोऽसि, कस्स ताय ! जहासि णे ? ॥२॥ 'अथ' इति आनन्तर्ये, प्रतिकूलोपसर्गानन्तरमनुकूलाः प्रतिपाद्यन्त इत्यानन्तर्यार्थः, ते 'इमे' अनन्तरमेवाभिधीयमानाः प्रत्य - क्षासन्नवाचिखादिदमाऽभिधीयन्ते, ते च 'सूक्ष्माः प्रायश्चेतोविकारकारिखेनान्तराः, न प्रतिकूलोपसर्गा इव बाहुल्येन शरीरविका - रकारिलेन प्रकटतया बादरा इति, 'सङ्गा' मातापित्रादिसम्बन्धाः ये एते ' भिक्षूणां ' साधूनामपि 'दुरुत्तरा ' दुर्लक्या - दुरतिक्रमणीया इति, प्रायो जीवितविभकरैरपि प्रतिकूलोपस गैरुदीर्णेर्माध्यस्थ्यमवलम्बयितुं महापुरुषैः शक्यम्, एते खनुकूलोपस| गस्तानप्युपायेन धर्माच्यावयन्ति, ततोऽमी दुरुत्तरा इति, 'यंत्र' येषूपसर्गेषु सत्सु 'एके' अल्पसच्चाः सदनुष्ठानं प्रति 'विषीदन्ति' शीतलविहारित्वं भजन्ते सर्वथा वा संयमं त्यजन्ति, नैवात्मानं संयमानुष्ठानेन 'यापयितुं' - वर्तयितुं तस्मिन् वा व्यवस्थापयितुं शक्नुवन्ति' समर्था भवन्तीति ॥ १ ॥ तानेव सूक्ष्मसङ्गान् दर्शयितुमाह - 'अपिः' संभावने 'एके' तथाविधा 'ज्ञातयः' स्वजना मातापित्रादयः प्रत्रजन्तं प्रत्रजितं वा 'दृष्ट्वा' उपलभ्य 'परिवार्य' वेष्टयित्वा रुदन्ति रुदन्तो वदन्ति च १ यतः प्र० For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy