________________
Shri Mahanadhana Kendra
www.kobatirth.org
Acharya Shri Kailashsageri yanmandir
प्रथमे उद्देशके ‘प्रतिलोमाः' प्रतिकूला उपसर्गाः प्रतिपाद्यन्त इति, तथा द्वितीये 'ज्ञातिकृताः' खजनापादिता अनुलोमा - अनुकू ला इति, तथा तृतीये अध्यात्मविषीदनं परवादिवचनं चेत्ययमर्थाधिकार इति, चतुर्थोदेशके अयमर्थाधिकारः, तद्यथा-- ' हेतुस|दृशैः' हेलाभासैर्येऽन्य तैर्थिकैर्युद्धा हिताः - प्रतारितास्तेषां शीलस्खलितानां - व्यामोहितानां प्रज्ञापना- यथावस्थितार्थप्ररूपणा स्वसमयप्रतीतैर्निपुण भणितैर्हेतुभिः कृतेति । साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तचेदम्
सूरं मण्णइ अप्पाणं, जाव जेयं न पस्सती । जुज्झतं दढधम्माणं, सिसुपालो व महारहं ॥ १ ॥ पयाता सूरा रणसीसे, संगामंमि उवट्टिते । माया पुत्तं न याणाइ, जेएण परिविच्छए ॥ २ ॥
कचिल्लघुप्रकृतिः सङ्ग्रामे समुपस्थिते शूरमात्मानं मन्यते - निस्तोयाम्बुद इवात्मश्लाघाप्रवणो वाग्भिर्विस्फूर्जन् गर्जति, तद्यथान मत्कल्पः परानीके कश्चित् सुभटोऽस्तीति, एवं तावद्गर्जति यावत् पुरोऽवस्थितं प्रोद्यतासिं जेतारं न पश्यति तथा चोक्तम्"तावद्गजः प्रस्रुतदानगण्डः, करोत्यकालाम्बुदगर्जितानि । यावन सिंहस्य गुहास्थलीपु, लाङ्गलविस्फोटवं शृणोति ॥ १ ॥ " | दृष्टान्तमन्तरेण प्रायो लोकस्यार्थावगमो भवतीत्यतस्तदवगतये दृष्टान्तमाह-यथा माद्रीसुतः शिशुपालो वासुदेवदर्शनात्प्राक् | आत्मश्लाघाप्रधानं गर्जितवान्, पश्चाच्च युध्यमानं - शस्त्राणि व्यापारयन्तं दृढः - समर्थो धर्मः -स्वभावः सङ्ग्रामाभङ्गरूपो यस्य स तथा तं महान् रथोऽस्येति महारथः, स च प्रक्रमादत्र नारायणस्तं युध्यमानं दृष्ट्वा प्राग्गर्जनाप्रधानोऽपि क्षोभं गतः, एवमुत्तरत्र
For Private And Personal
Deser