SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir 18 स्याभ्युपगतं दर्शनं येनासावपश्यकदर्शनस्तस्याऽऽमन्त्रणं हेऽपश्यकदर्शन ! खतोर्वागदर्शी भवांस्तथाविधदर्शनप्रमाणश्च सन् कार्या% कार्याविवेचितयाऽन्धवदभविष्यत् यदि सर्वज्ञाभ्युपगमं नाकरिष्यत् , यदिवा अदक्षो वा अनिपुणो वा दक्षोवा-निपुणो वा यादृशस्ता दृशो वाऽचक्षुर्दर्शनमस्यासावचक्षुर्दर्शनः–केवलदर्शन:-सर्वज्ञस्तस्माद्यदवाप्यते हितं तत् श्रद्धव, इदमुक्तं भवति-अनिपुणेन निपुणेन वा सर्वज्ञदर्शनोक्तं हितं श्रद्धातव्यं, यदिवा हे 'अदृष्ट' हे अर्वागदर्शन ! द्रष्ट्रा-अतीतानागतव्यवहितमूक्ष्मपदार्थद|र्शिना यद्याहृतम्-अभिहितमागमे तत् श्रद्धस्व, हे अदृष्टदर्शन अदक्षदर्शन ! इति वा-असर्वज्ञोक्तशासनानुयायिन् ! तमात्मीय| माग्रहं परित्यज्य सर्वज्ञोक्ते मार्गे श्रद्धानं कुर्विति तात्पर्याथः, किमिति सर्वज्ञोक्ते मार्गे श्रद्धानमसुमान्न करोति ? येनैवमुपदि श्यते, तन्निमित्तमाह -'हंदीत्येवं गृहाण, हुशब्दो वाक्यालङ्कारे सुष्टु-अतिशयेन निरुद्धम्-आवृतं दर्शन-सम्यग अवबो| धरूपं यस्य स तथा, केनेत्याह-मोहयतीति मोहनीयं-मिथ्यादर्शनादि ज्ञानावरणीयादिकं वा तेन स्वकृतेन कर्मणा निरुद्धदर्शनः । प्राणी सर्वज्ञोक्तं मार्ग न श्रद्धत्ते अतस्तन्मार्गश्रद्धानं प्रति चोद्यते इति ॥ ११ ॥ पुनरप्युपदेशान्तरमाह-दुःखम्-असातवेदनीयमुदयप्राप्तं तत्कारणं वा दुःखयतीति दुःखं तदस्यास्तीति दुःखी सन् प्राणी पौनःपुन्येन मोहं याति-सदसद्विवेकविकलो भवति, इदमुक्तं भवति-असातोदयात् दुःखमनुभवन्ना” मूढस्तत्तत्करोति येन पुनः पुनः दुःखी संसारसागरमनन्तमभ्येति, तदेवम्भूतं | | मोहं परित्यज्य सम्यगुत्थानेनोत्थाय 'निर्विद्येत' जुगुप्सयेत् परिहरेदात्मश्लाघां स्तुतिरूपां तथा 'पूजन' वस्त्रादिलाभरूपं परि-2 हरेत, 'एवम् अनन्तरोक्तया नीत्या प्रवर्त्तमानः सह हितेन वर्तत इति सहितो ज्ञानादियुक्तो वा संयतः प्रवजितोऽपरप्राणिभिः eseceverceeeeeeeeeeeeeeeeeeeee For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy