SearchBrowseAboutContactDonate
Page Preview
Page 185
Loading...
Download File
Download File
Page Text
________________ Shri Maharapin Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsageri yanmandir संवृताभि-निरुद्धानि कर्माणि-अनुष्ठानानि सम्यगुपयोगरूपाणि वा मिथ्यादर्शनाविरतिप्रमादकषाययोगरूपाणि वा181 | यस्य 'भिक्षोः' साधोः स तथा तस्य यत् 'दुःखम्' असद्वेद्यं तदुपादानभूतं वाऽष्टप्रकारं कर्म 'स्पृष्ट मिति बद्धस्पृष्टनिकाचित|मित्यर्थः, तच्चात्र 'अबोधिना' अज्ञानेनोपचितं सत् 'संयमतो' मौनीन्द्रोक्तात् सप्तदशरूपादनुष्ठानाद् 'अपचीयते' प्रतिक्षणं |क्षयमुपयाति, एतदुक्तं भवति यथा तटाकोदरसंस्थितमुदकं निरुद्धापरप्रवेशद्वारं सदादित्यकरसम्पर्कात प्रत्यहमपचीयते, एवं | संवृताश्रवद्वारस्य भिक्षोरिन्द्रिययोगकषायं प्रति संलीनतया संवृतात्मनः सतः संयमानुष्ठानेन चानेकभवाज्ञानोपचितं कर्म क्षीयते, | ये च संवृतात्मानः सदनुष्ठायिनश्च ते 'हित्वा' त्यक्ला 'मरणं' मरणखभावमुपलक्षणखात् जातिजरामरणशोकादिकं त्यक्ता | मोक्षं व्रजन्ति 'पण्डिताः सदसद्विवेकिनः, यदिवा-'पण्डिताः सर्वज्ञा एवं वदन्ति यत् प्रागुक्तमिति ॥१॥ येऽपिच तेनैव | ॥ भवेन न मोक्षमाप्नुवन्ति तानधिकृत्याह-'ये' महासत्त्वाः कामार्थिभिर्विज्ञाप्यन्ते यास्तदर्थिन्यो वा कामिनं विज्ञापयन्ति ता | विज्ञापना:-स्त्रियस्ताभिः 'अजुष्टा' असेविताः क्षयं वा-अवसायलक्षणमतीतास्ते 'सन्तीर्णैः' मुक्तैः समं व्याख्याताः, अतीर्णा अपि सन्तो यतस्ते निष्किञ्चनतया शब्दादिषु विषयेष्वप्रतिबद्धाः संसारोदन्वतस्तटोपान्तवर्तिनो भवन्ति, तसाद् 'ऊ मिति' मोक्षं योषित्परित्यागाद्वोर्ध्व यद्भवति तत्पश्यत यूयं । ये च कामान् 'रोगवदू' व्याधिकल्पान् 'अद्राक्षुः' दृष्टवन्तस्ते संतीर्णसमा व्याख्याताः, तथा चोक्तम्-"पुप्फैफलाणं च रसं सुराइ मंसस्स महिलियाणं च । जाणता जे विरया ते दुक्करकारए १ झोषोऽवसानम् । २ स्तटान्तर्व०प्र० । ३ पुष्पफलानां च रसं सुराया मांसस्य महेलानां च । जानन्तो ये विरतास्तान दुष्करकारकान् वन्दे ॥१॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy