________________
Shri Mahavir Jain A
thana Kendra
www.kobatirth.org
Acharya Shri Kailashsagars Granmandir
CSER
eseeeeeeeeeeeeeeeeeee
स्वात्मतां उप–सामीप्येन यान्ति-गच्छन्ति, तत्सहनाच भिक्षोः शून्यागारगतस्य नीराजितवारणस्येव शीतोष्णादिजनिता उपसर्गाः सुसहा एव भवन्तीति भावः॥१६॥ पुनरप्युपदेशान्तरमाहउवणीयतरस्स ताइणो, भयमाणस्स विविकमासणं। सामाइयमाहु तस्स जं, जो अप्पाण भए ण दसए॥ उसिणोदगतत्तभोइणो,धम्मट्ठियस्स मुणिस्स हीमतो। संसग्गि असाहुराइहिं,असमाहीउ तहागयस्सवि ___ उप-सामीप्येन नीतः-प्रापितो ज्ञानादावात्मा येन स तथा अतिशयेनोपनीत उपनीततरस्तस्य, तथा 'तायिनः' परात्मोपकारिणः त्रायिणो वा-सम्यक्पालकस्य, तथा 'भजमानस्य' सेवमानस्य 'विविक्तं' स्त्रीपशुपण्डकविवर्जितम् आस्यते-स्थीयते यस्मिन्निति तदासनं-वसत्यादि, तस्यैवम्भूतस्य मुनेः 'सामायिक' समभावरूपं सामायिकादिचारित्रमाहुः सर्वज्ञाः, 'यद्' | यस्मात् ततश्चारित्रिणा प्राग्व्यवस्थितस्वभावेन भाव्यं, यश्चात्मानं 'भये परिषहोपसर्गजनिते'न दर्शयेत् तद्भीरुन भवेत् तस्य सामायिकमाहुरिति सम्बन्धनीयं ॥ १७॥ किञ्च-मुनेः 'उष्णोदकतप्तभोजिन' त्रिदण्डोत्तोष्णोदकभोजिनः, यदिवाउष्णं सन्न शीतीकुर्यादिति तप्तग्रहणं,तथा श्रुतचारित्राख्ये धर्मे स्थितस्य 'हीमतो'त्तिही:-असंयम प्रति लज्जा तद्वतोऽसंयमजुगुप्साशवत इत्यर्थः, तस्यैवस्भूतस्य मुने राजादिभिः सार्द्ध यः 'संसर्गः' सम्बन्धोऽसावसाधुः अनर्थोदयहेतुखात् 'तथागतस्यापि | यथोक्तानुष्ठायिनोऽपि राजादिसंसर्गवशाद् 'असमाधिरेव' अपध्यानमेव स्यात्, न कदाचित् खाध्यायादिकं भवेदिति ॥१८॥ परिहार्यदोषप्रदर्शनेन अधुनोपदेशाभिधित्सयाऽऽह
For Private And Personal