SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsagerayanmandir 'आरम्भस्य' सावद्यानुष्ठानरूपस्य 'अन्ते' पर्यन्ते तदभावरूपे स्थितो मुनिर्भवति, ये पुननैवं भवन्ति ते अकृतधर्माः मरणे दुःखे | वा समुत्थिते आत्मानं शोचन्ति णमिति वाक्यालङ्कारे, यदिवेष्टमरणादौ अर्थनाशे वा 'ममाइणो 'त्ति ममेदमहमस्य स्वामी - त्येवमध्यवसायिनः शोचन्ति शोचमाना अप्येते 'निजम्' आत्मीयं परि-समन्तात् गृह्यते - आत्मसाक्रियत इति परिग्रहः - हिर|ण्यादिरिष्टखजनादिर्वा तं नष्टं मृतं वा 'न लभन्ते' न प्राप्नुवन्तीति, यदिवा धर्मस्य पारगं मुनिमारम्भस्यान्ते व्यवस्थितमेनमागत्य 'स्वजनाः' मातापित्रादयः शोचन्ति 'ममत्वयुक्ताः' स्नेहालवः, न च ते लभन्ते निजमप्यात्मीयपरिग्रहबुद्ध्या गृहीतमिति, ॥ ९ ॥ अत्रान्तरे 'नागार्जुनीयास्तु' पठन्ति "सोऊंण तयं उवडियं, केइ गिही विग्धेण उहिया । धम्मंमि अणुत्तरे मुणी, तंपि जिणिज इमेण पंडिए ॥ १ ॥ " एतदेवाह - 'इह' अस्मिन्नेव लोके हिरण्यस्वजनादिकं दुःखमावहति 'विउ 'त्ति विद्या:जानीहि, तथाहि - ' अर्थानामर्जने दुःखमर्जितानां च रक्षणे । आये दुःखं व्यये दुःखं, धिगर्थं दुःखभाजनम् ॥ १ ॥' तथाहि'रेवापय: किसलयानि च सल्लकीनां, विन्ध्योपकण्ठविपिनं स्वकुलं च हिंला । किं ताम्यसि द्विप ! गतोऽसि वशं करिण्याः; स्नेहो निबन्धनमनर्थपरम्परायाः ॥ १ ॥ परलोके च हिरण्यस्वजनादिममखापादितकर्मजं दुःखं भवति, तदप्यपरं दुःखमावहति, तदुपादानकर्मोपादानादिति भावः, तथैतदुपार्जितमपि 'विध्वंसनधर्मे' विशरारुखभावं गतरमित्यर्थः इत्येवं 'विद्वान' जानन् कः सकर्ण: 'अगारवा' गृहवासमावसेत् ?, गृहपाशं वाऽनुबभीयादिति, उक्तं च - "दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः । कोऽयं जनस्य मोहो ? ये रिपवस्तेषु सुहृदाशा ।। १ ।। १० ।। पुनरप्युपदेशमधिकृत्याह १ त्रिपदबहुबीहिरत्र, अनुसमासान्तश्च द्विपदादेव । २ श्रुत्वा तमुपस्थितं केचिद्गृहिणो विघ्नायोत्तिष्ठेयुः । धर्मेऽनुत्तरे मुनिस्तानपि जयेदनेन पण्डितः ॥ For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy