________________
Shri Mahavir Jain, Aradhana Kendral
सूत्रकृताङ्गं शीलाङ्काचार्ययवृ
॥ ६३ ॥
www.kobatirth.org
Acharya Shri Kailashsa Gyanmandir
बहुजननमनो धर्म इति स्थितं, तस्मिंश्व 'संवृत्तः' समाहितः सन् 'नर' पुमान् 'सर्वार्थेः' बाह्याभ्यन्तरैर्धनधान्यकलत्रममत्वा| दिभिः 'अनिश्रितः' अप्रतिबद्धः सन् धर्म प्रकाशितवानित्युत्तरेण सह सम्बन्धः, निदर्शनमाह - हद इव खच्छाम्भसा भृतः | सदा 'अनाविल:' अनेकमत्स्या दिजलचर संक्रमेणाप्यनाकुलो कलुषो वा क्षान्त्यादिलक्षणं धर्म ' प्रादुरकार्षीत्' प्रकटं कृतवान्, | यदिवा एवंविशिष्ट एव काश्यपं - तीर्थङ्करसंबन्धिनं धर्म प्रकाशयेत्, छान्दसत्वात् वर्त्तमाने भूतनिर्देश इति ॥ ७ ॥ स बहुजनन| मने धर्मे व्यवस्थितो यादृक् धर्मं प्रकाशयति तद्दर्शयितुमाह-यदिवोपदेशान्तरमेवाधिकृत्याह - 'बहवे' इत्यादि, 'बहवः' अन| न्ताः 'प्राणाः दशविधप्राणभाक्लात्तदभेदोपचारात् प्राणिनः 'पृथग' इति पृथिव्यादिभेदेन सूक्ष्मवादरपर्याप्तकापर्याप्तनरकगत्या| दिभेदेन वा संसारमाश्रिताः तेषां च पृथगाश्रितानामपि प्रत्येकं समतां - दुःखद्वेषितं सुखप्रियलं च 'समीक्ष्य' दृष्ट्वा, यदि - वा- 'समता' माध्यस्थ्यमुपेक्ष्य (त्य) यो 'मौनीन्द्रपदमुपस्थितः संयममाश्रितः स साधुः 'त' अनेकभेदभिन्नप्राणिगणे दुःखद्विषि सुखाभिलाषिण सति तदुपधांते कर्तव्ये विरतिम् अकार्षीत् कुर्याद्वेति, पापाड्डीनः - पापानुष्ठानात् दवीयान् पण्डित इति ॥ ८ ॥ अपिच
।
धम्मस्स य पारए मुणी, आरंभस्सय अंतए ठिए । सोयंति य णं ममाइणों, णो लब्भंति णियं परिग्गहं ९ | इहलोगदुहावहं विऊ, परलोगे य दुहं दुहावहं । विद्धंसणधम्ममेव तं इति विज्जं कोऽगारमावसे ? ॥ १० ॥ धर्मस्य - श्रुतचारित्रभेदभिन्नस्य पारं गच्छतीति पारगः - सिद्धान्तपारगामी सम्यक् चारित्रानुष्ठायी वेति, चारित्रमधिकृत्याह
For Private And Personal
२ वैताली
याध्य०
उद्देशः २
॥ ६३ ॥