________________
Shri Mahav
a dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagere afyanmandir
क्रियता, पर्षदाऽप्यभिहितम्-एवमस्तु, ततोऽभयकुमारेण धवलेतरप्रासादद्वयं कारितं, घोषितं च डिण्डिमेन नगरे, यथा-यः | कश्चिदिह धार्मिकः स सर्वोऽपि धवलनासादं गृहीतबलिः प्रविशतु, इतरस्त्वितरमिति, ततोऽसौ लोकः सर्वोऽपि धवलप्रासादमेव । प्रविष्टो निर्गच्छंश्च कथं त्वं धार्मिकः ? इत्येवं पृष्टः कश्चिदाचष्टे-यथाऽहं कर्षकः अनेकशकुनिगणः मद्धान्यकणैरात्मानं प्रीणयति खलकसमागतधान्यकणभिक्षादानेन च मम धर्म इति, अपरस्खाह-यथाऽहं ब्राह्मणः षट्कर्माभिरतः तथा बहुशौचनानादिभिर्वेदविहितानुष्ठानेन पितृदेवांस्तर्पयामि, अन्यः कथयति-यथाऽहं वणिक्कुलोपजीवी भिक्षादानादिप्रवृत्तः, अपरस्विदमाह-यथाऽहं कुलपुत्रकः न्यायागतं निर्गतिक कुटुम्बकं पालयाम्येव, तावत् श्वपाकोऽपीदमाह-यथाऽहं कुलक्रमागतं धर्ममनुपालयामीति मनिश्रया च बहवः पिशितभुजः प्राणान् संधारयन्ति,इत्येवं सर्वोऽप्यात्मीयमात्मीयं व्यापारमुद्दिश्य धर्मे नियोजयति, तत्रापरमसितप्रासादं श्रावकद्वयं प्रविष्टं, तच्च किमधर्माचरणं भवद्भ्यामकारीत्येवं पृष्टं सत् सकृन्मद्यनिवृत्तिभङ्गव्यलीकमकथयत् , तथा साधव एवात्र परमार्थतो धार्मिका यथागृहीतप्रतिज्ञानिर्वाहणसमर्थाः, अस्माभिस्तु-'अवाप्य मानुषं जन्म, लब्ध्वा जैनं च शासनम् । कृखा निवृत्तिं मद्यस्य, सम्यक् सापि न पालिता ॥१॥ अनेन व्रतभङ्गेन, मन्यमाना अधार्मिकम् । अधमाधममात्मानं, कृष्णप्रासादमाश्रिताः॥२॥ तथाहि-'लज्जां गुणौघजननी जननीमिवार्यामत्यन्तशुद्धहृदयामनुवर्तमानाः । तेजस्विनः सुखममूनपि संत्यजन्ति, सत्यस्थितिव्यसनिनो न पुनः प्रतिज्ञाम् ॥३॥ वरं प्रवेष्टुं ज्वलितं हुताशनं, नचापि भग्नं चिरसंचितव्रतम् । वरं हि मृत्युः सुविशुद्धचेतसो, नचापि शीलस्खलितस्य जीवितम् ॥४॥” इति, तदेवं प्रायशः सर्वोऽप्यात्मानं धार्मिकं मन्यत इतिकृता १ आधारस्यापि कर्मत्वविवक्षया, गत्यर्थत्वेन विशः कर्तरि क्त इति न प्रथमाशङ्का । २ जातिपक्षीया मविपुलेयम् । ३ कर्मणो । प्र. ।
For Private And Personal