SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ Shri Maharadhana Kendra www.kobatirth.org Acharya Shri Kailashsager Gyanmandir 'समे 'ति समभावोपेतः सामायिकादौ संयमे संगमस्थाने वा षट्स्थानपतितत्वात् संयमस्थानानामन्यतरस्मिन् संयमस्थाने छेदोपस्थापनीयादौ वा, तदेव विशिनष्टि – सम्यकशुद्धे सम्यकशुद्धो वा 'श्रमणः' तपस्वी लज्जामदपरित्यागेन समानमना वा 'परि व्रजेत्' संयमोद्युक्तो भवेत् स्यात् - कियन्तं कालम् १, यावत् कथा - देवदत्तो यज्ञदत्त इति कथां यावत् सम्यगाहित आत्मा ज्ञानादौ येन स समाहितः समाधिना वा - शोभनाध्यवसायेन युक्तः, द्रव्यभूतो - रागद्वेषादिरहितः मुक्तिगमनयोग्यतया वा भव्यः, स एवम्भूतः कालमकार्षीत् 'पण्डितः सदसद्विवेककलितः, एतदुक्तं भवति - देवदत्त इति कथा मृतस्यापि भवति अतो | यावन्मृत्युकालं तावल्लज्जामदपरित्यागोपेतेन संयमानुष्ठाने प्रवर्तितव्यमिति स्यात् ॥ ४ ॥ किमालम्व्यैतद्विधेयमिति, उच्यते दूरं अणुपस्सिया मुणी, तीतं धम्ममणागयं तहा । पुट्ठे परुसेहिँ माहणे, अवि हण्णू समयंमि रीयइ ॥ ५॥ | पण्णसमेते सया जए, समताधम्ममुदाहरे मुणी । सुहुमे उ सया अलूसए, णो कुज्झे णो माणि माहणे ॥ ६॥ दूरवर्त्तिखात् दूरी - मोक्षस्तमनु-पश्चात् तं दृष्ट्वा यदिवा दूरमिति दीर्घकालम् 'अनुदृश्य' पर्यालोच्य 'मुनिः' कालत्रयवेत्ता दूरमेव दर्शयति-अतीतं 'धर्म' स्वभावं - जीवानामुच्चावचस्थानगतिलक्षणं तथा अनागतं च धर्म-स्वभावं पर्यालोच्य लज्जामदौ न विधेयौ, तथा 'स्पृष्ट:' छुप्तः 'परुषैः' दण्डकशादिभिर्वाग्भिर्वा 'माहणे'त्ति मुनिः 'अवि हण्णू'त्ति अपि मार्यमाणः १ समयाहियासए पा० । २ पण्डसमत्ये पा० For Private And Personal bestsestatalsEDEDEDECAL
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy