________________
Shri Mahani Aradhana Kendra
सूत्रकृताङ्गं शीलाङ्काचार्ययवृ
तियुतं
॥ ६१ ॥
www.kobatirth.org
Acharya Shri Kailashsapagur Gyanmandir
भ्रमति 'महदू' अत्यर्थं महान्तं वा कालं, कचित् 'चिरम्' इति पाठः, 'अटु'त्ति अथशब्दो निपातः निपातानामनेकार्थत्वात् अत | इत्यस्यार्थे वर्तते, यतः परपरिभवादात्यन्तिकः संसारः अतः 'इंखिणिया' परनिन्दा तुशब्दस्यैवकारार्थखात् 'पापिकैव' दोषवत्येव, अथवा स्वस्थानादधमस्थाने पातिका, तत्रेह जन्मनि सुघरो दृष्टान्तः, परलोकेऽपि पुरोहितस्यापि वादिषूत्पत्तिरिति, | इत्येवं 'संख्याय' परनिन्दां दोषवतीं ज्ञात्वा मुनिर्जात्यादिभिः यथाऽहं विशिष्टकुलोद्भवः श्रुतवान् तपखी भवांस्तु मत्तो हीन | इति न माद्यति ॥ २ ॥ मदाभावे च यद्विधेयं तद्दर्शयितुमाह
जे यावि अणायगे सिया, जेविय पेसगपेसए सिया । जे मोणपयं उवट्टिए, णो लज्जे समयं सया यरे ॥३॥ | | सम अन्नयरम्मि संजमे, संसुद्धे समणे परिवए । जे आवकहा समाहिए, दविए कालमकासि पंडिए ॥ ४ ॥
यश्चापि कश्चिदास्तां तावत् अन्यो न विद्यते नायकोऽस्येत्यनायकः - स्वयंप्रभुश्चक्रवर्त्यादिः 'स्यात्' भवेत्, यश्चापि प्रेष्यस्यापि | प्रेष्यः - तस्यैव राज्ञः कर्मकरस्यापि कर्मकरः, य एवम्भूतो मौनीन्द्रं पद्यते - गम्यते मोक्षो येन तत्पदं - संयमस्तम् उप - सामीप्येन | स्थितः उपस्थितः समाश्रितः सोऽप्यलज्जमान उत्कर्षमकुर्वन् वा सर्वाः क्रियाः- परस्परतो वन्दनप्रतिवन्दनादिका विधत्ते, इदमुक्तं भवति - चक्रवर्तिनाऽपि मौनीन्द्रपदमुपस्थितेन पूर्वमात्मप्रेष्यप्रेष्यमपि वन्दमानेन लज्जा न विधेया इतरेण चोत्कर्ष इत्येवं 'समता' समभावं सदा भिक्षुश्चरेत् संयमोद्युक्तो भवेदिति ॥ ३ ॥ क पुनर्व्यवस्थितेन लज्जामदौ न विधेयाविति दर्शयितुमाह
१ सिअ वृत्तिः ।
For Private And Personal
२ वैताली
याध्य०
उद्देशः २
॥ ६१ ॥