________________
Shri Mahavir
dhana Kendra
www.kobatirth.org
Acharya Shri Kailashsage
Granmandir
दिव्यज्ञानेनाष्टापदोपरिव्यवस्थितेन भरताधिपभरतेन चक्रवर्तिनोपहतैरष्टैनवतिभिः पुत्रैः पृष्टेन यथा भरतोऽस्मानाज्ञां कारयत्यतः किममाभिर्विधेयमित्यतस्तेषामगारदाहकदृष्टान्तं प्रदर्य न कथश्चिजन्तोर्भोगेच्छा निवर्तत इत्यर्थगर्भमिदमध्ययनं 'कथितं' प्रतिपादितं, तेऽप्येतच्छूखा संसारासारतामवगम्य विषयाणां च कटुविपाकतां निःसारतां च ज्ञात्वा मत्तकरिकर्णवच्चपलमायुर्गिरिनदी| वेगसमं यौवनमित्यतो भगवदाजैव श्रेयस्करीति तदन्तिके सर्वे प्रव्रज्यां गृहीतवन्त इति । अत्र 'उद्देसे निदेसे य' इत्यादिः सर्वोऽप्युपोद्घातो भणनीयः ॥ ३९ ॥ साम्प्रतं उद्देशार्थाधिकारं प्रागुल्लिखितं दर्शयितुमाह-- | पढमे संबोहो अनिचया य बीयंमि माणवजणया । अहिगारो पुण भणिओतहा तहा बहुविहो तत्थ ॥४०॥ उद्देसंमि य तइए अन्नाणचियस्स अवचओ भणिओ। वजेयव्यो य सया सुहप्पमाओ जइजणेणं ॥४१॥
तत्र प्रथमोद्देशके हिताहितप्राप्तिपरिहारलक्षणो बोधो विधेयोऽनित्यता चेत्ययमर्थाधिकारः, द्वितीयोद्देशके मानो वर्जनीय इत्यKA यमर्थाधिकारः, पुनश्च तथा तथाऽनेकप्रकारो बहुविधं शब्दादावर्थेऽनित्यतादिप्रतिपादकोाधिकारो भणित इति, तृतीयोदेशके
अज्ञानोपचितस्य कर्मणोऽपचयरूपोऽर्थाधिकारो भणित इति यतिजनेन च सुखप्रमादो वर्जनीयः सदेति ॥४१॥ साम्प्रतं सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं, तच्चेदम्संबुज्झह किं न बुज्झह?, संबोही खलु पेञ्च दुल्लहा।णो हूवणमंति राइओ,नो सुलभं पुणरावि जीवियं ॥१॥ १ यद्यपि विंशत्यायेति वचनात्स्यादत्र स्त्रीत्वमेकचनान्वितं तथापि प्रतिपुत्रं प्रश्नोत्तरपार्थक्यविवक्षयात्र बहुत्वं । चैत्रमैत्राभ्यामेकविंशती दत्तमितिवत् ।
eeeeeeeeeeeeeeeeesececener
eeeeeeeee.orcecececeneca
e
For Private And Personal