________________
Shri Mahavidin Aradhana Kendra
bestsese
www.kobatirth.org
॥ अथ द्वितीयाध्ययनस्य प्रथमोदेशकः प्रारभ्यते ॥
-
Acharya Shri Kailashsagersyri@yanmandir
उक्तं समयाख्यं प्रथममध्ययनं, साम्प्रतं वैतालीयाख्यं द्वितीयमारभ्यते, अस्य चायमभिसंबन्धः - इहानन्तराध्ययने खसमयगुणाः परसमयदोषाश्च प्रतिपादिताः, तांश्च ज्ञात्वा यथा कर्म विदार्यते तथा बोधो विधेय इत्यनेन संबन्धेनाऽऽयातस्यास्याध्ययनस्योपक्रमादीनि चत्वार्यनुयोगद्वाराणि भणनीयानि, तत्राप्युपक्रमान्तर्गतोऽर्थाधिकारो द्वेधा-अध्ययनार्थाधिकार उद्देशार्थाधि - कारश्च तत्राध्ययनार्थाधिकारः प्रागेव नियुक्तिकारेणाभाणि - 'णाऊण बुज्झणा चेवे' त्यनेन गाथाद्वितीयपादेनेति, उद्देशार्थाधिकारं तु खत एव नियुक्तिकार उत्तरत्र वक्ष्यति, नामनिष्पन्नं तु निक्षेपमधिकृत्य निर्युक्तिकृदाह
वेयालियम वेयालगोय वेयालणं वियालणियं । तिन्निवि चउक्कगाई विद्यालओ एत्थ पुण जीवो ॥ ३६ ॥
तत्र प्राकृतशैल्या वेयालियमिति 'दृ विदारणे इत्यस्य धातोर्विपूर्वस्य छान्दसत्वात् भावे ण्वुल्प्रत्ययान्तस्य विदारकमिति क्रियावाचकमिदमध्ययनाभिधानमिति, सर्वत्र च क्रियायामेतत्रयं सन्निहितं तद्यथा—कर्ता करणं कर्म चेति, अतस्तद्दर्शयति- विदारको विदारणं विदारणीयं च तेषां त्रयाणामपि नामस्थापनाद्रव्यभावभेदाच्चतुर्द्धा निक्षेपेण त्रीणि चतुष्ककानि द्रष्टव्यानि अत्र च नामस्थापने क्षुण्णे, द्रव्यविदारको यो हि द्रव्यं काष्ठादि विदारयति, भावविदारकस्तु कर्मणो विदार्यत्वात् नोआगमतो जीव - विशेषः, साधुरिति ॥ ३६ ।। करणमधिकृत्याऽऽह –
For Private And Personal