SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ Shri Maha Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarayanmandir | स्यात्, तस्मात्सर्वज्ञत्रमेष्टव्यं । तथा यदुक्तं - 'खापबोधविभागेन परिमितं जानातीत्येतदपि सर्वजनसमानले यत्किञ्चिदिति । यदपि च कैश्चिदुच्यते - यथा 'ब्रह्मणः स्वप्नावबोधयोर्लोकस्य प्रलयोदयौ भवत' इति, तदप्ययुक्तिसंगतमेव, प्रतिपादितं चैतत् प्रागेवेति न प्रतन्यते । न चात्यन्तं सर्वजगत उत्पादविनाशौ विद्येते 'न कदाचिदनीदृशं जगदिति वचनात् । तदेवमनन्तादिकं लोकवादं परिहृत्य यथावस्थितवस्तुस्वभावाविर्भावनं पश्चार्द्धेन दर्शयति-ये केचन त्रसाः स्थावरा वा तिष्ठन्त्यस्मिन् संसारे तेषां स्वकर्मपरिणत्याऽस्त्यसौ पर्यायः 'अंजू' इति प्रगुणोऽव्यभिचारी तेन पर्यायेण स्वकर्मपरिणतिजनितेन ते त्रसाः सन्तः स्थावराः संपद्यन्ते स्थावरा अपि च त्रसत्तमभ्रुवते तथा त्रसास्त्रसत्वमेव स्थावराः स्थावरत्वमेवाऽऽनुवन्ति, न पुनर्यो यादृगिह स तादृगेवामुत्रापि भवतीत्ययं नियम इति ॥ ८ ॥ अस्मिन्नेवार्थे दृष्टान्ताभिधित्सयाऽऽह - उरालं जगतो जोगं, विवज्जासं पलिंति य । सवे अक्कंतदुक्खा य, अओं सवे अहिंसिता ॥ ९ ॥ एयं खु नाणिणो सारं, जन्न हिंसइ किंचण । अहिंसासमयं चेव, एतावन्तं वियाणिया ॥ १० ॥ 'उराल' मिति स्थूलमुदारं 'जगत' औदारिकजन्तुग्रामस्य 'योगं' व्यापारं चेष्टामवस्थाविशेषमित्यर्थः, औदारिकशरीरिणो हि जन्तवः प्राक्तनादवस्थाविशेषाद्गर्भकललार्बुदरूपाद् 'विपर्यासभूतं' बालकौमारयौवनादिकमुदारं योगं परि-समन्तादयन्ते - गच्छन्ति पर्ययन्ते, एतदुक्तं भवति - औदारिकशरीरिणो हि मनुष्यादेर्वालकौमारादिकः कालादिकृतोऽवस्थाविशेषोऽन्यथा चान्यथा च भवन् प्रत्यक्षेणैव लक्ष्यते, न पुनर्यादृक् प्राक् तादृगेव सर्वदेति, एवं सर्वेषां स्थावरजङ्गमानामन्यथाऽन्यथा च भवनं द्रष्टव्यमिति । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy