________________
Shri Mahalen Aradhana Kendra
सूत्रकृताङ्गं शीलाङ्काचार्ययवृ
॥ ५१ ॥
www.kobatirth.org
Acharya Shri Kailashsagar
अपि च- 'सर्वे' जन्तव आक्रान्ता अभिभूता दुःखेन - शारीरमानसेनासातोदयेन दुःखाक्रान्ताः सन्तोऽन्यथाऽवस्थाभाजो लभ्यन्ते, | अतः सर्वेऽपि ते यथाsहिंसिता भवन्ति तथा विधेयं । यदिवा – सर्वेऽपि जन्तवः 'अकान्तम्' अनभिमतं दुःखं येषां तेऽकान्तदुःखाः चशब्दात् प्रियसुखाश्च, अतस्तान् सर्वान् न हिंस्यादित्यनेन चान्यथाखदृष्टान्तो दर्शितो भवत्युपदेशश्च दत्त इति ॥ ९ ॥ किमर्थं सच्चान् न हिंस्यादित्याह - खुरवधारणे, एतदेव 'ज्ञानिनो' विशिष्टविवेकवतः 'सारं' न्याय्यं यत् कञ्चन प्राणिजातं | स्थावरं जङ्गमं वा 'न हिनस्ति' न परितापयति, उपलक्षणं चैतत् तेन न मृषा ब्रूयान्नादत्तं गृह्णीयानाब्रह्माऽऽसेवेत न परिग्रहं । | परिगृह्णीयान्न नक्तं भुञ्जीतेत्येतज्ज्ञानिनः सारं यन्न कर्माश्रवेषु वर्तत इति । अपि च-अहिंसया समता अहिंसासमता तां चैतावद्वि| जानीयात्, यथा मम मरणं दुःखं चाप्रियमेवमन्यस्यापि प्राणिलोकस्येति, एवकारोऽवधारणे, इत्येवं साधुना ज्ञानवता प्राणिनां परितापनाऽपद्रावणादि न विधेयमेवेति ॥ १० ॥ एवं मूलगुणानभिधायेदानीमुत्तरगुणानभिधातुकाम आह
बुसिए य विगयंगेही, आयाणं सं ( सम्म) रक्खऐ । चरिआसणसेज्जासु, भत्तपाणे अ अंतसों ॥ ११ ॥ एहिं तिहिं ठाणेहिं, संजय सततं मुणी । उक्कसं जलणं णूमं, मज्झत्थं च विगिंचए ॥ १२ ॥ | समिए उ सया साहु, पंचसंवरसंबुडे । सिएहि असिए भिक्खू, आमोक्खाय परिवज्जासि ॥१३॥त्तिबेमि ॥
१ विगयगिद्धी य प्र० २ आयाणीयं सरक्खए। चू०
For Private And Personal
seses
nmandir
१ समया० उद्देशः ४ लोकवाद -
निरास:
॥ ५१ ॥