________________
Shri Jain Aradhana Kendra
www.kobatirth.org
रहंसि
तं सरयंति बालं, आरुस्स विज्झति तुदेण पिट्टे ॥ ३ ॥ अयं तत्तं जलियं सजोइ, तऊवमं भूमिमणुक्कमंता । ते ज्झमाणा कणं थणंति, उसुचोइया तत्तजुगेसु जुत्ता ॥ ४ ॥
Acharya Shri Kailashsagaru Gyanmandir
'से' तस्य नारकस्य तिसृषु नरकपृथिवीषु परमाधार्मिका अपरनारकाच अधस्तनचतसृषु चापरनारका एव मूलत आरभ्य बाहून् 'प्रकर्तयन्ति' छिन्दन्ति तथा 'मुखे' विकाशं कृत्वा 'स्थूलं' बृहत्तप्तायोगोलादिकं प्रक्षिपन्त आ - समन्ताद्दहन्ति । तथा 'रहसि ' एकाकिनं 'युक्तम्' उपपन्नं युक्तियुक्तं स्वकृतवेदनानुरूपं तत्कृतजन्मान्तरानुष्ठानं तं 'बालम्' अर्ज नारकं स्मारयन्ति, तद्यथा - तप्तत्रपुपानावसरे मद्यपस्त्वमासीस्तथा स्वमांसभक्षणावसरे पिशिताशी खमासीरित्येवं दुःखानुरूपमनुष्ठानं स्मारयन्तः कदर्थयन्ति तथा निष्कारणमेव 'आरूष्य' कोपं कृत्वा प्रतोदादिना पृष्ठदेशे तं नारकं परवशं विध्यन्तीति ॥ ३ ॥ तथातप्तायोगोलकसन्निभां ज्वलितज्योतिर्भूतां तदेवंरूपां तदुपमां वा भूमिम् 'अनुक्रामन्तः तां ज्वलितां भूमिं गच्छन्तस्ते दह्यमानाः 'करुणं' दीनं विखरं 'स्तनंति' रारटन्ति तथा तप्तेषु युगेषु युक्ता गलिबलीवर्दा इव इषुणा प्रतोदादिरूपेण विध्यमानाः स्तनन्तीति ॥ ४ ॥ अन्यच्च
बाला बला भूमिमणुकमंता, पविज्जलं लोहपहं च तत्तं ।
For Private And Personal