________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsaga
n mandir
सूत्रकृताङ्गं शीलाङ्काचाीयवृत्तियुतं
५ नरकविभक्त्यध्य. उद्देशः २
॥१३५॥
हत्थेहि पाएहि य बंधिऊणं, उदरं विकत्तंति खुरासिएहिं ।
गिण्हित्तु बालस्स विहत्तु देहं, वद्धं थिरं पिट्ठतो उद्धरंति ॥२॥ 'अथ' इत्यानन्तर्ये 'अपरम्' इत्युक्तादन्यद्वक्ष्यामीत्युत्तरेण सम्बन्धः, शश्वद्भवतीति शाश्वतं-यावदायुस्तच्च तहुःखं च शाश्वतदुःखं तद्धर्मः-स्वभावो यस्मिन् यस्य वा नरकस्य स तथा तम् , एवम्भूतं नित्यदुःखस्वभावमक्षिनिमेषमपि कालमविद्यमानसुखलेशं 'याथातथ्येन' यथा व्यवस्थितं तथैव कथयामि, नात्रोपचारोऽर्थवादो वा विद्यत इत्यर्थः, 'बाला' परमार्थमजानाना विषयसुखलिप्सवः साम्प्रतक्षिणः कर्मविपाकमनपेक्षमाणा 'यथा' येन प्रकारेण दुष्ट कृतं दुष्कृतं तदेव कर्म-अनुष्ठानं तेन वा दुष्कृतेन कर्म-ज्ञानावरणादिकं तदुष्कृतकर्म तत्कर्तुं शीलं येषां ते दुष्कृतकर्मकारिणः त एवम्भूताः 'पुराकृतानि जन्मान्तरा|र्जितानि कर्माणि यथा वेदयन्ति तथा कथयिष्यामीति ॥१॥ यथाप्रतिज्ञातमाह-परमाधार्मिकास्तथाविधकर्मोदयात् क्रीडायमानाः तान्नारकान् हस्तेषु पादेषु बद्धोदरं 'क्षुरप्रासिभिः' नानाविधैरायुधविशेषैः 'विकर्तयन्ति' विदारयन्ति, तथा परस्य बालस्येवाकिञ्चित्करत्वाद्वालस्य लकुटादिभिर्विविधं 'हतं' पीडितं देहं गृहीखा 'वधं चर्मशकलं 'स्थिरं बलवत् 'पृष्ठतः पृष्ठिदेशे 'उद्धरन्ति' विकतैयन्त्येवमग्रतः पार्श्वतश्चेति ॥ २॥ अपि च
बाह पैकत्तंति य मूलतो से, थलं वियासं महे आडहति ।
॥१३५॥
१पकप्पंति समू०प्र० ।
For Private And Personal