SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ Shri Maharrei Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsi mandir क्तम्- " छिन्नपादभुजस्कन्धाश्छिन्नकर्णौष्ठनासिकाः । भिन्नतालुशिरोमेन्द्रा, भिन्नाक्षिहृदयोदराः ॥ १ ॥ " किञ्चान्यत् - कुम्भिनामानो नरकपाला नारकान्नरकेषु व्यवस्थितान् निघ्नन्ति, तथा पाचयन्ति, केति दर्शयति- 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'पचनेषु' कडिल्लकाकृतिषु तथा 'लौहीषु' आयसभाजनविशेषेषु कन्दुलोहिकुम्भीषु कन्दुकानामिव अयोमयीषु कुम्भीषुकोष्ठिका कृतिषु एवमादिभाजनविशेषेषु पाचयन्ति । तथा-वालुकाख्याः परमधार्मिका नारकानत्राणांस्तप्तषालुका भृतभाजने चणकानिव तडतडिति स्फुटतः 'भजंति' भृज्जन्ति - पचन्ति, क ? इत्याह- कदम्बपुष्पाकृतिवालुका कदम्बवालुका तस्याः पृष्ठम् - उपरितलं तस्मिन् पातयित्वा अम्बरतले च लोलयन्तीति । किञ्चान्यत् — वैतरणीनामानो नरकपाला वैतरणीं नदीं विकुर्वन्ति, सा च पूयरुधिरकेशास्थिवाहिनी महाभयानका कलकलायमानजलश्रोता तस्यां च क्षारोष्णजलायामतीव बीभत्सदर्शनायां नारकान् प्रवाहयन्तीति । तथा — खरखराख्यास्तु परमाधार्मिका नारकानेवं कदर्थयन्ति तद्यथा - क्रकचपातैर्मध्यं मध्येन स्तम्भमिव | सूत्रपातानुसारेण कल्पयन्ति - पाटयन्ति, तथा परशुभिश्च तानेव नारकान् 'परस्परम्' अन्योऽन्यं तक्षयन्ति सर्वशो देहावयवाप - नयनेन तनून् कारयन्ति, तथा 'शामलीं' वज्रमयभीषणकण्टकाकुलां खरखरै आरटतो नारकानारोहयन्ति पुनरारूढानाकर्ष - यन्तीति । अपिच- महाघोषाभिधाना भवनपत्यसुराधमविशेषाः परमाधार्मिका व्याधा इव परपीडोत्पादनेनैवातुलं हर्षमुद्वहन्तः क्रीडया नानाविधैरुपायैर्नारकान् कदर्थयन्ति, तांश्च भीतान् प्रपलायमानान् मृगानिव 'समन्ततः' सामस्त्येन 'तत्रैव' पीडोत्पादनस्थाने 'निरुम्भन्ति' प्रतिबभन्ति 'पशून्' बस्तादिकान् यथा पशुवधे समुपस्थिते नश्यतस्तद्वधकाः प्रतिवन्त्येवं तत्र नरकावासे नारकानिति ॥ गतो नामनिष्पन्ननिक्षेपः, अधुना सूत्रानुगमे अस्खलितादिगुणोपेतं सूत्रमुच्चारणीयं तच्चेदम् For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy