SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ Shri Mahan Aradhana Kendra सूत्रकृताङ्ग शीलाङ्काचार्ययवृचियुतं ॥१२५॥ eser www.kobatirth.org Acharya Shri Kailashsaga Granmandir हृदयं पाटयन्ति तथा तद्गतं 'कालेज्जं 'ति हृदयान्तर्वर्ति मांसखण्डं तथा 'फुप्फुसे 'ति उदरान्तर्वर्तीन्यत्रविशेषरूपाणि तथा 'वल्कलान्' वर्धान् आकर्षयन्ति, नानाविधैरुपायैरशरणानां नारकाणां तीव्र वेदनामुत्पादयन्तीति । अपिच तथा अन्वर्थाभिधाना रौद्राख्या नरकपाला रौद्रकर्माणो नानाविधेष्वसिशक्त्यादिषु प्रहरणेषु नारकानशुभकर्मोदयवर्तिनः प्रोतयन्तीति । तथाउपरुद्राख्याः परमाधार्मिका नारकाणामङ्गप्रत्यङ्गानि शिरोबाहूरुकादीनि तथा करचरणांश्च 'भञ्जन्ति' मोटयन्ति पापकर्माणः कल्पनीभिः 'कल्पयन्ति' पाटयन्ति, तन्नास्त्येव दुःखोत्पादनं यत्ते न कुर्वन्तीति । अपिच - तथा कालाख्या नरकपालासुरा 'मीरासु' दीर्घचुल्लीषु तथा शुण्ठकेषु तथा कन्दुकेषु प्रचण्डकेषु तीव्रतापेषु नारकान् पचन्ति, तथा 'कुम्भीषु' उष्ट्रिकाकृतिषु तथा 'लोहिषु' आयसकवल्लिषु नारकान् व्यवस्थाप्य जीवन्मत्स्यानिव पचन्ति । अपिच - महाकालाख्या नरकपालाः पापकर्मनिरता | नारकान्नानाविधैरुपायैः कदर्थयन्ति, तद्यथा - 'काकिणीमांसकानि' श्लक्ष्णमांसखण्डानि 'कल्पयन्ति' नारकान् कुर्वन्ति, तथा 'सीहपुच्छाणि 'त्ति पृष्ठीवस्तांश्छिन्दन्ति तथा ये प्राक् मांसाशिनो नारका आसन् तान् स्वमांसानि खादयन्तीति । अपिचअसिनामानो नरकपाला अशुभकर्मोदयवर्तिनो नारकानेवं कदर्थयन्ति तद्यथा-हस्तपादोरुबाहुशिरः पार्श्वादीन्यङ्गप्रत्यङ्गानि छिन्दन्ति 'प्रकामम्' अत्यर्थं खण्डयन्ति, तुशब्दोऽपरदुःखोत्पादन विशेषणार्थ इति । तथा — असिप्रधानाः पत्रधनुर्नामानो नरकपाला असिपत्रवनं बीभत्सं कृत्वा तत्र छायार्थिनः समागतान् नारकान् वराकान् अस्यादिभिः पाटयन्ति, तथा केर्णोष्ठनासिकाकरचरणदशनस्तन स्फिंगूरुबाहूनां छेदन भेदनशातनादीनि विकुर्वितवाताहृतचलिततरुपातितासिपत्रादिना कुर्वन्तीति, तदु १ किंच प्र० । २ कण्ठोष्ठ ० प्र० । ३ पूतौ स्फिजौ कटि प्रोथौ हैमः । For Private And Personal ५ नरकवि भक्तयध्य. उद्देश: १ ॥१२५॥
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy