SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ Shri Main Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagaranmandir भी पलायते समंततो तत्थ ते णिरुंभंति । पसुणो जहा पसुवहे महघोसा तत्थ रहए ॥ ८४ ॥ तत्राम्बाभिधानाः परमाधार्मिकाः स्वभवनान्नरकावासं गत्वा क्रीडया नारकान् अत्राणान् सारमेयानिव शूलादिप्रहारैस्तुदन्तो 'धाडेंति' त्ति प्रेरयन्ति – स्थानात् स्थानान्तरं प्रापयन्तीत्यर्थः, तथा 'पहाडेंति 'ति खेच्छयेतश्वेतश्वानाथं भ्रमयन्ति, तथा अम्बरतले | प्रक्षिप्य पुनर्निपतन्तं मुद्गरादिना भन्ति, तथा शूलादिना विध्यन्ति, तथा 'निसुंभंति'त्ति कृकाटिकायां गृहीत्वा भूमौ पातयन्ति अधोमुखान्, तथोत्क्षिप्य अम्बरतले मुञ्चन्तीत्येवमादिकया विडम्बनया 'तत्र' नरकपृथिवीषु नारकान् कदर्थयन्ति । किश्वान्यत्| उप- सामीप्येन मुद्गरादिना हता उपहताः पुनरप्युपहता एव खड्गादिना हता उपहतहतास्तान्नारकान् 'तस्यां ' नरकपृथिव्यां 'निःसंज्ञकान्' नष्टसंज्ञान् मूच्छितान्सतः कर्पणीभिः 'कल्पयन्ति' छिन्दन्तीतश्चेतश्च पाटयन्ति, तथा 'द्विदलचडलकच्छिन्नानि' ति मध्यपाटितान् खण्डशश्छिन्नांश्च नारकांस्तत्र - नरकपृथिव्यामम्बर्षिनामानोऽसुराः कुर्वन्तीति, तथा - 'अपुण्यवतां ' तीव्रासातो| दये वर्तमानानां नारकाणां श्यामाख्याः परमाधार्मिका एतचैतच्च प्रवर्तयन्ति तद्यथा - 'शातनम् ' अङ्गोपाङ्गानां छेदनं, तथा | 'पातनं' निष्कुटादधो वज्रभूमौ प्रक्षेपः तथा 'प्रतोदनं' शूलादिना तोदनं व्यधनं ( ग्रन्थाग्रम् ३७५० ) सूच्यादिना नासिकादौ | वेधस्तथा रज्ज्वादिना क्रूरकर्मकारिणं बध्नन्ति, तथा तादृग्विधलताप्रहारैस्ताडयन्त्येवं दुःखोत्पादनं दारुणं शातनपातनवेधनबन्ध| नादिकं बहुविधं 'प्रवर्तयन्ति' व्यापारयन्तीति, अपिच - तथा - सबलाख्या नरकपालास्तथाविधकर्मोदयसमुत्पन्नक्रीडापरिणामा अपुण्यभाजां नारकाणां यत्कुर्वन्ति तद्दर्शयति, तद्यथा - अत्रगतानि यानि फिफ्फिसानि - अत्रान्तर्वर्तीनि मांसविशेषरूपाणि तथा १ कूष्माण्डवदातं छत्वा यत्तिर्यक् छिद्यते वि० प्र० । २ व्यधनं तथा । व्यथनं तथा । For Private And Personal
SR No.020782
Book TitleSutrakritangam
Original Sutra AuthorSudharmaswami
Author
PublisherVenichand Surchand
Publication Year1917
Total Pages859
LanguageSanskrit
ClassificationBook_Devnagari & agam_sutrakritang
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy