________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
समयार्थबोधिनी टीका द्वि. श्रु. अ. १ पुण्डरीकनामाध्ययनम्
छाया-आयापर स्तृतीयः पुरुषजात ईश्वरकारणिक इत्याख्यायते। इह खल पाच्यां वा ४ सन्त्येके मनुष्या भवन्ति आनुपूया लोकमुपपनाः तद्यथा-आर्या वा एके यावत् दुरूपा एके, तेषां च खलु महान् एको राजा भवति यावत् सेनापतिपुत्राः। तेषां च खलु एकः श्रद्धावान् भवति कामं तं श्रमणाश्च ब्राह्मणाश्च सम्मधाः गमनाय यावत्, यथा-मया एष धर्मः स्वाख्यातः सुपज्ञप्तो भवति-इह खलु धर्माः पुरुषादिकाः पुरुषोत्तराः पुरुषप्रगीताः पुरुासंभूताः पुरुषप्रयोतिताः पुरुषमभिसमन्वागताः पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम गण्डः स्यात् शरीरे जातः शरीरे संटद्धः, शरीरेऽभिसमन्वागतः, शरीरमेव अभिभूय तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम अरतिः स्यात् शरीरे जाता शरीरे संवृद्धा शरीरे अभिसमन्वागता शरीरमेव अभिभूय तिष्ठन्ति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुष मेन अभिभूय तिष्ठन्ति । तद्यथा नाम वल्मीकं स्यात् पृथिवीजातं पृथिवीसंवृद्धं पृथिवीमभिसमन्वागतं पृथिवीमेन अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिकाः यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम वृक्षः स्यात् पृथिवी जातः पृथिवीसंदृद्धः पृथिवीमभिसमन्वागतः पृथिवीमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम पुष्करिणी स्यात् पृथिवी जाता यावत् पृथिवीमेव अभिभूष तिष्ठति एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथा नाम उदकपुष्कलं स्यात् उदकजातं यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति । तद्यथानाम उदकबुद् बुदः स्यात् उदकजातो यावद् उदकमेव अभिभूय तिष्ठति, एवमेव धर्मा अपि पुरुषादिका यावत् पुरुषमेव अभिभूय तिष्ठन्ति। यदपि चेदं श्रमणानां निर्ग्रन्थानामुद्दिष्टं प्रणीतं व्यश्चितं द्वादशाङ्गं गणिपिटकं तद्यथा-आचारस सूत्रकृतो यावद् दृष्टिवादः सर्वमेतन्मिथ्या। नैतत्तथ्यं नैतद् याथातथ्यमिदं सत्यम् इदं तथ्यम् इदं याथातथ्यम्, ते एवं संज्ञां कुर्वन्ति ते एवं संज्ञां संस्थापयन्ति ते एवं संज्ञा सूपस्थापयन्ति, तदेवं ते तज्जातीयं दुःखं नैव त्रोटयन्ति शकुनिपञ्जर यथा । ते नो एवं विपतिवेदयन्ति-तद्यथा-क्रिया इति वा यावद् अनिरय इति वा। एवमेव ते विरूपरूपैः कर्म समारम्भैः विरूपरूपान् काम भोगान् समारभन्ते भोगाय । एवमेव ते अनार्या विप्रतिपन्ना एवं श्रद्दधाना यावदिति ते नोऽर्वाचे नो पाराय अन्तरा कामभोगेषु विषण्णा इति तृतीया पुरुषजात ईश्वरकार• णिक इत्याख्यातः ॥ सू०११ ॥
For Private And Personal Use Only