________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७२६
सूत्रकृतासूत्र भूत्वा अगारादनगारित्वं प्रवजन्ति एषां च आमरणान्तो दण्डो निक्षिप्ता, ये इमे अगारमावसन्ति एतेषां खलु आमरणान्तो दण्डो नो निक्षिप्तः केचिच्च खलु श्रमणाः यावद् वर्षाणि चतुःपश्चषड्दशानि वा अल्पतरं वा भूयस्तरं वा विहृत्य देशम गारमावसेयुः ? । हन्त वसेयुः। तस्य तं गृहस्थं जता तत्पत्याख्यानं भग्नं भवति ? नायमर्थः समर्थः, एवमेव श्रमणोपासकस्याऽपि त्रसेषु प्राणेषु दण्डो निक्षिप्तः स्थावरेषु दण्डो न निक्षिप्तः तस्य खलु तं स्थावरकायं नतः तत् पत्या. ख्यानं नो भग्न भवति तदेवं जानीत निर्ग्रन्थाः , एवं ज्ञातव्यम् । भगवांश्च उदाह -निर्ग्रन्याः खलु प्रष्टव्या आयुष्मन्तो निर्ग्रन्थाः, इह खलु गाथापतिर्वा गाथापति पुत्रो-वा तथामकारेषु कुलेषु आगत्य धर्मश्रवणार्थ मुपसंक्रमेयुः ? हन्त ! उपसंक्रमेयुः, तेषां च खलु यथापकाराणां धर्म आख्यातव्यः ? हन्त आख्यातव्यः। किं ते तथापकार धर्म श्रुत्वा निशम्य एवं वदेयुः-इदमेव नैन्य प्रवचनं सत्य मनुत्तरं कैवलिक परिपूर्ण संशुद्धं नैयायिक शल्यकर्तनं सिद्धिमार्ग मुक्तिमार्गः निर्माणमार्ग निर्वाणमार्गः अवितधमसंदिग्धं सर्वदुःखपहीणमार्गम्। अत्र स्थित्वा जीवाः सिध्यन्ति बुध्यन्ते मुश्चन्ति परिनिर्वान्ति सर्वदुःखानामन्तं कुर्वन्ति, तदाज्ञया तथा गच्छाम स्तथा तिष्ठामस्तथा निषीदाम स्तथा त्वचं वर्तयाम स्तथा भुनामहे तथा भाषामहे तथा अभ्युत्तिष्ठामस्तथा उत्थाय उत्तिष्ठाम इति माणानां भूतानां जीवानां सत्चानां संयमेन संयच्छाम इति वदेयुः ? इन्त वदेयुः। कि ते तथापकाराः कल्प्यन्ते प्रव्राजयितुम् ? हन्त कल्प्यन्ते। किं ते तथापकराः कल्प्यन्ते मुण्डयितुं हन्त कल्प्यन्ते । किं ते तथामकाराः कल्प्यन्ते शिक्षयितुं ? हन्त कल्प्यन्ते । किं ते तथापकाराः कल्पन्ते उपस्थापयितुम् १ हन्त कल्प्यन्ते । तैश्च खलु, तथाप्रकारैः सर्वपाणिषु यावत् सर्वसत्वेषु दण्डो निक्षितः ? हन्त निक्षिप्तः। ते खलु एतद्रूपेण विहारेण विहरन्तो यावद् वर्षाणि चतुः पश्चानि षड्दशानि वा अल्पतरं वा भूयस्तरं वा देशं विहृत्य अगारं व्रजेयुः ? हन्त व्रजेयुः । तैश्व खलु सर्वप्राणेषु यावत्सर्वसत्वेषु दण्डो निक्षिप्त ! नायमर्थः समर्थः तस्य यः स जीवः येन परतः सर्वप्राणेषु यावत्सर्वसत्त्वेषु दन्डो नो निक्षिप्तः तस्य यः स जीवः येन आरात् सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो निक्षिप्तः, तस्य स जीवः येन इदानीं सर्वमाणेषु यावत् सर्वसत्त्वेषु दण्डो न निक्षिप्तो भवति परतोऽसंयतः आरात् संयतः इदानीमसंयतः, असंयतस्य खलु सर्वप्राणेषु यावत् सर्वसत्त्वेषु दण्डो नो निक्षिप्तो भवति तदेवं जानीत निर्ग्रन्थाः। तदेवं ज्ञातव्यम् । भगवांश्च उदाह-निर्ग्रन्थाः खल प्रष्टव्या आयुष्मन्तो निर्गन्याः। इह खलु परिव्राजका वा परित्राजिका वा अन्यतरेभ्य स्तीर्थायतनेभ्य आगत्य
For Private And Personal Use Only