SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः५] सूतसंहिता। ५३ न्दोग्ये ‘स ऐक्षत लोकान्नु मुजे' इत्यैतरेयके । 'सोऽकामयत बहु स्यां मजायेय' इति तैत्तिरीयके । 'तपसा चीयते ब्रह्म' इति मुण्डके । "विचिकीर्षुर्घनीभूता क्वचिदभ्येति बिन्दुताम्" इति प्रपञ्चसारे । अपरिपक्वकर्माभेदादनीभावस्तदर्थव्यापारो विचिकीर्षा । परिपक्वकर्माकारपरिणतमायाविशिष्टं बिन्दुस्तदिदमविभागावस्थमव्यक्तमुच्यते । अत एव तस्योत्पत्तिः स्मर्यते 'तस्मादव्यक्तमुत्पन्नं त्रिगुणं द्विजसत्तम' इति । स एव जगदडूराकारोऽध्यात्मं चाऽऽधारादीवभिव्यज्यमानः कुण्डल्यादि. शब्दैरुच्यते । यदाहुः "शक्तिः कुण्डलिनीति विश्वजननव्यापारबद्धोद्यमां जात्वेत्थं न पुनर्विशन्ति जननीगर्भेऽर्भकत्वं नराः" इति । "कुण्डली सर्वथा ज्ञेया मुषुम्नान्तर्गतैव सा" इति । बिन्दोः कालक्रमेण चिदचिदंशविभागात्रैविध्यं तत्रैवोक्तम्'कालेन विद्यमानस्तु स बिन्दुर्भवति त्रिधा ॥ स्थूलसूक्ष्मपरत्वेन तस्य त्रैविध्यमिण्यते । स बिन्दुनादबीजत्वभेदेन च निगद्यते' इति ॥ अचिदंशः स्थूलो बीजम् | चिदचिन्मिश्रः सूक्ष्मो नादः । स एव पुरुषश्चिदंशः परो बिन्दुः स एवेश्वरः । तस्य च त्रिधाविभागसमये शब्दब्रह्मापरनामधेयस्य रवस्योत्पत्तिरुक्ता 'बिन्दोस्तस्माद्भिद्यमानाद्रवो व्यक्तात्मको भवेत् । स रवः श्रुतिसंपन्नैः शब्दब्रह्मेति गीयते' इति ॥ स एव शब्दब्रह्मात्मको रवो जगदुपादानं बिन्दुतादात्म्येन सर्वगतोऽपि माणिनां मूलाधारेऽभिव्यज्यत इत्युक्तम् - 'स तु सर्वत्र संस्यूतो मूले व्यक्तस्तथा पुनः । आविर्भवति देहेषु प्राणिनामर्थविस्तृतः" इति ॥ देहेष्विति मूलाधारपदेशे तस्यानुस्यूतस्य रवस्य संस्थितपवनबलेनाभिव्यक्तिराविभावः। तत्र हि पवनस्योत्पत्तिरुक्ता "देहेऽपि मूलाधारेऽस्मिन्समुद्यति समीरणः" इति । ज्ञातमर्थ विवक्षोः पुरुषस्येच्छया जातेन प्रयत्नेन मूलाधारस्थः पवनः संस्कृतस्तेन पवनन सर्वत्र स्थितं शब्दब्रह्म तत्राभिव्यज्यते । १ ख, ग, ईक्षत । २ क. ग. ह. दानाभ्यामि। For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy