________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पयेदापिकासमेता [१शिवमाहात्म्यखण्डे मातृकाव्यतिरेकेण मन्त्रा नैव हि सत्तमाः॥८॥ उक्तोपचारजातस्य शक्तिपूजामन्त्रस्य सर्व मातृकयेति । तयैव करणे कारणमाह--मननायिकेति । तत एवोद्धृत्य हि सर्वमन्त्रा नीयन्त इत्यर्थः । मातृकाव्यतिरेकेणेति । नहि मातृकायामननुपविष्टमक्षरमस्ति न चानक्षरात्मको मत्रोऽप्यस्ति । अतो मातृकया कृतं सर्वैरेव मन्त्रैः कृतं स्यादित्यर्थः ॥७॥८॥
मातृका च त्रिधा स्थूला सूक्ष्मा सूक्ष्मतराऽपि च ।
गुरूपदेशतो ज्ञेयो नान्यथा शास्त्रकोटिभिः॥९॥ प्रथममध्यमोत्तमानामधिकारिणां स्वाधिकारानुसारेण मातृकारूपपूजाकरणमित्यभिप्रेत्य तस्यास्वरूप्यमाह-मातृका च विधेति । प्रथमोऽधिकारी स्थूलया मातृकया पूजयेत् । मध्यमः सूक्ष्मया । उत्तमः सूक्ष्मतरयेति विभागः । स्थूलादिरूपत्रयं चैवमवगन्तव्यम् । नियतकालपरिपाकानां हि माणिकर्मणां मध्ये परिपक्कानामुपभोगेन प्रक्षयादितरेषां चापरिपक्कानां भोगाभावेन तदर्थायाः सृष्टेरनुपयोगात्माकृतमलये प्रस्तसमस्तमपञ्चा माया स्वप्रतिष्ठे निष्कले परशिवे विलीना यावदवशिष्टकर्मपरिपाकं वर्तते । उक्तं हि
"प्रलये व्याप्यते तस्यां चराचरमिदं जगत्" इति ॥ तथा-"जगत्मतिष्ठा देवर्षे पृथिव्यप्सु प्रलीयते ।
तेजस्यापः प्रलीयन्ते तेजो वायो प्रलीयते ॥ वायुः प्रलीयते व्योनि तदव्यक्ते प्रलीयते ।
अव्यक्तं पुरुषे ब्रह्म निष्कले संपलीयते” इति ॥ अव्यक्तं माया तस्याश्च सम्यक्पलयो नाम मुक्ताविव नाऽऽत्यन्तिको नाशः। किंतु मुप्तौ सति मायागोचरप्रवृत्तीनामप्यभावात्स्वप्रतिष्ठपरमात्मप्रकाशस्याप्यत्यन्तनिर्विकल्पतया लगलाद्भासमानाया अप्पप्रतिभातपायत्वं न पुनरनवभानमेव प्रतिभासमात्रशरीरस्य हि मिथ्यावस्तुनोऽनवभाने सत्यभाव एव स्यादिति । न चाभाव एवास्तु । उत्तरसर्गानुपपत्तिमसङ्गादिति । अवशिष्टैः प्राणिकर्मभिश्च तस्यां मायायां विलीयैव क्रमेण प्राप्तपरिपाकैः स्वफलप्रदानाय परमेश्वरस्य सिमृक्षात्मिका मायावृत्तिर्जन्यते । सैषा मायावस्थेक्षणकामतपोविचिकीर्षादिशब्दैरभिधीयते । 'तदैक्षत बहु स्यां प्रजायेय' इति च्छा
१. 'जामात्रस्य । २१, वा।
For Private And Personal Use Only