________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२६
तात्पर्यदीपिकासमेता- [३ मुक्तिखण्डेउच्चै?षाय । उच्छ्रितशब्दायोच्छूितस्तोत्राय । पत्तीनाम् "एकेभैकरथा व्यश्वा पत्तिः" इत्यमरः । तासां पतये । सच्चानां सह सीदतां महाप्रमथगणानां पतये ॥ ६५ ॥ ६६॥
ककुभाय नमस्तुभ्यं नमस्तेऽस्तु निषङ्गिणे ॥
स्तनानां पतये तुभ्यं कृत्रिमाय नमो नमः ॥ ६७ ॥ ककुभाय । ककुभो दिशो वासत्वेनास्य सन्तीत्यर्शआदित्वादन् , तस्मै
तस्कराणां नमस्तुभ्यं पतये पापहारिणे ॥
वञ्चते परिवञ्चते स्तायूनां पतये नमः ॥ ६८॥ वञ्चते गच्छते । वचिर्गत्यर्थः । परिवञ्चते परितः सर्वत्र गच्छते । स्ता. यूनाम् । छद्मचारिणो ये वस्त्रादीनपहरन्ति कपटसाधुवेषास्ते तायवः "उत. स्मैनं वस्त्रमथिं न तायुम्" इत्यादौ दर्शनात् । तत्र वा सकारलोपः । अत्र वा सकारोपजनस्तेषां पतये ॥ ६८ ॥
नमो निचेरवे तुभ्यमरण्यपतये नमः ॥ उष्णीषिणे नमस्तुभ्यं नमस्ते परमात्मने ॥ ६९ ॥ विस्तृताय नमस्तुभ्यमासीनाय नमो नमः ॥ शयानाय नमस्तुभ्यं सुषुप्ताय नमो नमः ॥ ७० ॥ प्रबुद्धाय नमस्तुभ्यं स्थिराय परमात्मने ॥ सभारूपाय ते नित्यं सभायाः पतये नमः ॥ ७१ ॥ नमः शिवाय साम्बाय ब्रह्मणे सर्वसाक्षिणे ॥ ७२ ॥ सूत उवाच
एवं सुरासुरैरन्यैः शंकरोऽभिष्टुतः पुनः ॥ कृत्ला प्रसादं सर्वेषां तत्रैवान्तर्हितोऽभवत् ॥ ७३ ॥ अस्य तीर्थस्य माहात्म्यं स्थानस्यास्य सभापतेः ॥ यो वेत्ति श्रद्धया मुक्ति सिद्धा तस्य महात्मनः ॥७४॥
For Private And Personal Use Only