________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३१४
तात्पर्यदीपिका समेता
[ ३ मुक्तिखण्डे -
इति स्वे महिनि" इति श्रुतेः स्वमहिमप्रतिष्ठितत्वादनन्यास्पद इति । तदेव तस्यासाधारणं रूपमित्यर्थः । प्रमाणमाह- स्वसंवेद्य इति । "यतो वाचो निव र्तन्ते । अप्राप्य मनसा सह" इति वाङ्मनसविषयातिवर्तिनि तस्मिन्भगवति स्वभावभूतः प्रकाश एव मुख्यं प्रमाणमित्यर्थः । ज्ञानातिरिक्तस्य जडत्वेन ज्ञानस्यैव स्वयंप्रकाशत्वात्तस्य च क्षणिकत्वात्तद्रपस्याऽऽत्मनोऽपि तथात्वमिति मं व्युदस्पति- पूर्णचैतन्य इति । वृत्त्यवच्छेदेन हि चैतन्यं क्षणिकमिव भवति । तेनवच्छिन्नं तु परिपूर्ण तन्नित्यमित्यर्थः । इत्थं दुरधिगमस्य प्रयनतोऽधिगमे फलमाह - आनन्द इति । इत्थमुक्तरूपस्य ज्ञातव्यस्य तत्त्वस्य ज्ञातुरात्मनः पृथक्त्वं वारयति सोऽहमिति । प्राक्पृथग्भूतस्यैव जीवस्य शिवतादात्म्यमुपायैर्लभ्यमिति केचन भ्रान्ताः । यदाहुः
"आ मुक्तेर्भेद एव स्याज्जीवस्य च परस्य च ।
मुक्तस्य तु न भेदोऽस्ति भेदहेतोरभावतः " इति ।
तान्वारयति -सदेति । अत्रास्तीति सत्यत्वम् । स्वसंवेद्य इति ज्ञानत्वम् । पूर्ण इत्यनन्तत्वम् | आनन्द इति सुखत्वम् । सोऽहमिति मत्यक्त्वमिति रूपपञ्चकमुक्तम् । तेन सत्यज्ञानानन्तानन्दात्मत्वलक्षणेन रूपपञ्चकेनानृतजदान्तवत्त्वदुःखानात्मत्वभ्रमव्युदासेनाखण्डैकरसं स्वरूपमुपदिष्टमिति द्रष्टव्यम् ॥ ३४ ॥
तस्य काचित्सुराः शक्तिर्मायाख्याऽस्ति विमोहिनी ॥ विचारवेलायां साऽऽत्मा भवत्येव न चान्यथा ॥ ३५ ॥ इत्थमेकर से तस्मिन्वस्तुनि कथं देहाभासजगदवभासाविति तत्राऽऽह - तस्य काचिदिति । तदाश्रितमायाविलासमात्रमेतत्तथात्वं च विचारजनितज्ञाननिवर्त्यत्वादित्यर्थः || ३५ ॥
तदभेदेन सोऽप्यात्मा प्रलये जगतः स्थितः ॥ तस्मिन्प्रपञ्चसंस्कारः स्थितः सर्वः सुरोत्तमाः ॥ ३६ ॥ प्राकृतप्रतिसंचरे तर्हि मायाया अपि नष्टत्वात्कुतः पुनः प्रादुर्भाव इत्यत आह - तदभेदेनेति । ग्रस्तसमस्तप्रपञ्चा माया स्वप्रतिष्ठत्वादत्यन्त निर्विकल्पकेन चैतन्येन विविच्यमानाऽपि तादात्म्याध्यासात्मकाशेनैव प्रकाशमाना वर्तत एव । " अव्यक्तं पुरुषे ब्रह्मनिष्कले संप्रलीयते" इत्यपि विवेकावभासविरहमात्राभि
१ क ख ग घ 'तन्यस्य क्ष । २ ग. ङ. तदवच्छिन्नं । ३ क. चारितायां साचात्मा । क. तस्मिन्कथं । ५ ग गति स्थि । ६ ग. 'तिष्ठिता ।
For Private And Personal Use Only