SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः ७] सूतसंहिता। २९७ भवन्तोऽपि शिवज्ञानसिद्धयर्थ मुनिपुंगवाः॥ परिहृत्यैव वर्तध्वमेतानर्थानशेषतः ॥ ३८॥ इति श्रीस्कन्दपुराणे मूतसंहितायां मुक्तिखण्डे ज्ञानानु त्पत्तिकारणकथनं नाम षष्ठोऽध्यायः॥६॥ आचार्य बालबुद्धिरिति । "शिव एव ह्याचार्यरूपेणानुगृह्णाति" इत्यागमेषु प्रसिद्धम् । यदाह "योजयति परे तत्त्वे स दीक्षयाऽऽचार्यमूर्तिस्थः" इति । अन्यत्रापि"गुरुदेवतानामात्मैक्यं संभावयन्समाहितधीः" इति । अतः स मनुष्यबुद्धया न ग्राह्यः । अत एव वयसा कनीयानपि ज्यायस्त्वेनैव प्रतिपत्तव्यः । तस्य कृतकृत्यत्वेन वर्णाश्रमविरहेण च कर्तव्याभावाद्विहिताकरणनिमित्तमशिष्टत्वमपि तस्मिन्न मन्तव्यमित्यर्थः ॥ ३३ ॥ ३४ ॥ ३५ ॥ ।। ३६ ॥ ३७॥ ३८॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानानुत्पत्तिकारणकथनं नाम षष्ठोऽध्यायः ॥६॥ (अथ सप्तमोऽध्यायः) ईश्वर उवाच अथातः संप्रवक्ष्यामि तवाहं पुरुषोत्तम ॥ विदच्छुश्रूषणपरं शृणु श्रद्धापुरःसरम् ॥१॥ पुरा कश्चिद्दिजश्रेष्ठः शशिवर्णसमाह्वयः॥ पाकयज्ञसमाख्यस्य तनयः पापकर्मकृत् ॥२॥ तमोभिभूतचित्तश्च ब्रह्मविज्ञानदूषकः ॥ वेदनिन्दापरः सर्वप्राणिहिंसापरोऽधमः ॥३॥ शिवनिन्दापरः सर्वदेवतादूषकः सदा ॥ धर्मनिन्दापरस्तदद्वार्मिकस्यापराधकृत् ॥४॥ For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy