________________
Shri Mahavir Jain Aradhana Kendra
२१८
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तात्पर्यदीपिका समेता
[२ज्ञानयोगखण्डे
सर्वपापविनिर्मुक्तः सम्यग्ज्ञानमवाप्नुयात् ॥ मनोजयत्वमाप्नोति पलितादि च नश्यति ॥ २५ ॥ प्राणायामैकनिष्ठस्य न किंचिदपि दुर्लभम् ॥ तस्मात्सर्वप्रयत्नेन प्राणायामं समभ्यसेत् ॥ २६ ॥ विनियोगान्प्रवक्ष्यामि प्राणायामस्य सुव्रत ||
संध्ययोर्ब्राह्मकाले वा मध्याह्ने वाऽथवा सदा ॥ २७ ॥
किंचिज्ज्ञानादिति । प्राणायामो हि सत्त्वशुद्धिं जनयति । तया ज्ञानं भवति । श्रूयते हि - " ज्ञानप्रसादेन विशुद्धसत्त्वस्ततस्तु तं पश्यते निष्कलं ध्यायमानः" इति || २४ || २५ || २६ || २७ ||
बाह्यप्राणं समाकृष्य पूरयित्वोदरेऽनघ ॥ नासाग्रे नाभिमध्ये च पादाङ्गुष्ठे च धारयेत् ॥ २८ ॥
नासाग्रं नाभिमध्यं पादाङ्गठं च चिन्तयतस्तत्र चित्तं धृतं भवति तेन च प्राणो जीयत इत्यर्थः । एतद्योगप्रकार: सविशेषमन्यत्रोक्तः -
" इडया वायुमाकृष्य पूरयित्वोदरे दृढम् | वामाङ्घ्यङ्गुष्ठके नाभौ नासाग्रे धारयेत्स्थिरम् ॥ पुनः पिङ्गलयाऽऽपूर्य दक्षाध्यङ्गुष्ठकेऽनिलम् । नाभौ नासाग्रके प्राग्वद्धारयेद्धयानसंयुतः ॥ पुटाभ्यामथवा वायुं पूरितं धारयेत्स्थिरम् । अनेनाभ्यासयोगेन प्राणवायुर्जितो भवेत्' इति || २८|| सर्वरोगविनिर्मुक्तो जीवेद्वर्षशतं नरः ॥ नासाग्रधारणाद्वायुर्जितो भवति सुव्रत ॥ २९ ॥ सर्वरोगविनाशः स्यान्नाभिमध्ये च धारणात् ॥ शरीरलघुता विप्र पादाङ्गुष्ठनिरोधनात् ॥ ३० ॥ जिह्वया वायुमाकृष्य यः पिबेत्सततं नरः ॥ श्रमदाहविनिर्मुक्तो भवेन्न्रीरोगतामियात् ॥ ३१ ॥
धारणात्रयस्य पृथक्फलमाह - नासायेति ॥ २२ ॥ ३० ॥ ३१ ॥
For Private And Personal Use Only