SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अध्यायः१२] सूतसंहिता। इति श्रीस्कन्दपुराणे सूतसंहितायां ज्ञानयोगखण्डे नाडीचक्रनिरूपणं नामैकादशोऽध्यायः ॥ ११ ॥ ॥ ६९ ॥ ७० ॥ ७१ ॥ ७२ ॥ ७३ ॥ ७४ ॥ ७५ ॥ ७६ ॥ ७७ ॥७८॥ ॥ ७९ ॥ ८० ॥ ८१ ॥ ८२ ॥ ८३ ॥ इति श्रीसूतसंहितातात्पर्यदीपिकायां ज्ञानयोगखण्डे नाडीचक्रनि रूपणं नामैकादशोऽध्यायः ॥ ११ ॥ (अथ द्वादशोऽध्यायः) ईश्वरउवाच अथातः संप्रवक्ष्यामि नाडीशुद्धिं समासतः ॥ विध्युक्तकर्मसंयुक्तः कामसंकल्पवर्जितः॥१॥ यमाद्यष्टाङ्गसंयुक्तः शान्तः सत्यपरायणः॥ गुरुशुश्रूषणरतः पितृमातृपरायणः ॥२॥ यतो नाडीचक्रज्ञानाधीनं तत्र चित्तपणिधानपूर्वकं नाडीशोधनमतस्तदनन्तरं तत्कथन मिति प्रतिजानीते-अथात इति । पापनिबन्धनस्य शोधनस. मये नाडीस्खलनस्य परिहारायाऽऽह-विध्युक्तेति । चित्तविक्षेपनिबन्धनस्य परिहारायाऽऽह-कामेति ॥ १ ॥ २॥ खाश्रमे संस्थितः सम्यग्ज्ञानिभिश्च सुशिक्षितः ॥ पर्वताने नदीतीरे बिल्वमूले वनेऽथवा ॥३॥ ज्ञानिभिरिति । शोधनेऽनुभवपर्यन्तं ज्ञानवद्भिः । ऐकाय्यानुकूलं देशमाहपर्वताग्र इत्यादि ॥३॥ मनोरमे शुचौ दशे वेदघोषसमन्विते ॥ फलमूलैः सुसंपूर्ण रिभिश्च सुसंयुते ॥ ४ ॥ सुशोभनं मठं कृत्वा सर्वरक्षासमन्वितम् ॥ त्रिकालस्नानसंयुक्तः श्रद्दधानः समाहितः ॥५॥ १ ग. 'ढीस्तवन । ङ. 'डीसंवलन । २ ग. ‘ने तथा । For Private And Personal Use Only
SR No.020777
Book TitleSsut Samhita
Original Sutra AuthorN/A
AuthorMahadev Chimnaji Aapte
PublisherAnand Ashram
Publication Year1893
Total Pages366
LanguageSanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy