________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अध्यायः११] सूतसंहिता।
१९७ भेदेन चेन्नोपासनीयं तर्हि कथमित्यत आह-नाडीपुञ्जमिति । नर इति भावोऽ. हमभिमानो यस्मिस्तं नाडीपुलं तदुपलक्षितं शरीरत्रयमुपाधिभूतमात्मना समु. त्सृज्य बुद्धया विविच्याऽऽत्मानमहमित्यवधारय परमात्मानं प्रत्यक्तादात्म्पेनानुसंधेहीत्यर्थः ॥ ६६ ॥
अशरीरं शरीरेषु महान्तं विभुमीश्वरम् ॥
आनन्दमक्षरं साक्षान्मत्वा धीरो न शोचति ॥ ६७ ॥ उक्तेऽर्थे काठकश्रुतिमर्थत उदाहरति-अशरीरमिति । श्रुतिपाठस्त्वेवम्
"अशरीरं शरीरेष्वनवस्थेष्ववस्थितम् ।
महान्तं विभुमात्मानं मत्वा धीरो न शोचति" इति । मत्वा ज्ञात्वा ॥ ६७ ॥ विभेदजनके ज्ञाने नष्टे ज्ञानेबलान्मुने ॥
आत्मनो ब्रह्मणो भेदमसन्तं कः करिष्यति ॥ ६८॥ तावतैव शोकाभावे कारणमाह-विभेदेति । निरतिशयानन्दपरशिवस्वरूपस्य हि जीवस्य तथात्वापरिज्ञाननिबन्धनो यो भेदः स एव सांसारिकसकल. क्लेशहेतुरैकात्म्यज्ञानेन ताहगज्ञाननिवृत्तौ ब्रह्मणः सकाशादात्मनो जीवस्य निबन्धनभेदाभावानिहेतुकः संसारशोक इत्यर्थः ॥ ६८॥
सर्व समासतः प्रोक्तं सादरं मुनिसत्तम ॥
तस्मान्मायामयं देहं मुक्त्वा पश्य स्वमात्मकम् ॥६९॥ सूत उवाच
इति श्रुत्वा गिरां नाथो भक्त्या परखशः पुनः ॥ स्तोतुमारभते देवमम्बिकापतिमद्रुतम् ॥ ७० ॥ बृहस्पतिरुवाच
जय देव परानन्द जय चित्सत्यविग्रह ॥ जय संसाररोगन जय पापहर प्रभो ॥ ७१॥ जय पूर्ण महादेव जय देवारिमर्दन ॥ जय कल्याण देवेश जय त्रिपुरमर्दन ॥७२॥
ख. 'धित्रयभू । २ घ. 'न्दीश्वरं । ३ घ. 'नवतां मुने ।
For Private And Personal Use Only