________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-८, ६३]
अष्टमोऽधिकारः तथादेशं ददौ सेनापतये याहि सत्वरम् । जित्वा भिल्लं समागच्छ दर्पिष्टं शत्रुकं मम ।।५१।। सत्यं प्रसिद्धभूपालाः प्रजापालनतत्पराः । ये ते नैव सहन्तेऽत्र प्रजापीडनमुत्तमाः ॥५२॥ सेनापतिस्तदा शीघ्रं सारसेनासमन्वितः । गत्वा युद्धे जितस्तेन भिल्लराजेन वेगतः ॥५३॥ मानभङ्गेन संत्रस्तः पश्चात्स्वपुरमागतः। पुण्यं बिना कुतो लोके जयः संप्राप्यते शुभः ॥५४॥ ततः कोपेन गच्छन्तं भूपालाख्यं स्वयं नृपम् । लोकपालः सुतः प्राह नत्वा शृणु महीपते ।। ५५।। सेवके मयि सत्यत्र किं श्रीमद्भिः प्रगम्यते । गदित्वेति ततो गत्वा सर्वसारबलान्वितः ॥६॥ युद्धं विधाय तं हत्वा भिल्लं स्वपुरमागमत् । दुःसाध्यं स्वपितुलॊके साधयत्यत्र सत्सुतः॥५७।। व्याघ्रो भिल्लपतिः सोऽपि मृत्वा कर्मवशीकृतः । गोकुले कुर्कुरो भूत्वा कदाचित्स कृतज्ञकः ।।५८।। गोपस्त्रीभिश्च कौशाम्बी सहागत्य जिनालयम् । समालोक्य समाश्रित्य किंचिच्छुभयुतोऽभवत् ।।१९।। मृत्वा ततश्च चम्पायां नरजन्मत्वमाप सः। सिंहप्रियाभिधानस्य कस्यचिल्लुब्धकस्य च ॥६॥ सिंहिन्यां तनयो भूत्वा मृत्वा तत्र पुनः स च । चम्पायां सुभगा नाम गोपालः समजायत ॥६१।। श्रेष्ठिनस्ते पितुः सोऽपि गोपालो मन्दिरेऽभवत् । गवां वृषभदासस्य पालकः प्रौढबालकः ॥३२॥ गवां संपालनत्वाच्च सुराजेव जनप्रियः । कवेः काव्योपमश्छन्दोगामी सर्वमनोहरः॥६३।।
For Private And Personal Use Only