________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-८, ३७ ]
अष्टमोऽधिकारः तथा स्तुतिं चकारोच्चैर्जय त्वं जिनपुङ्गव । जय जन्मजरामृत्युमहागदभिषग्वर ।।२५।। जय त्रैलोक्यनाथेश सर्वदोषक्षयंकर । जय त्वं त्रिजगद्भव्यपद्माकरदिवाकर ।।२६|| जय त्वं केवलज्ञानलोकालोकप्रकाशक । जय त्वं जिननाथात्र विघ्नकोटिप्रणाशक ॥२८॥ जय त्वं धर्मतीर्थेश परमानन्ददायक । जय त्वं सर्वतत्त्वार्थसिन्धुवर्धनचन्द्रमाः ॥२८॥ जय सर्वज्ञ सर्वेश सर्वसत्त्वहितंकर । जय त्वं जितकन्दर्प शीलरत्नाकर प्रभो ॥२९।। त्वं देव त्रिजगत्पूज्यस्त्वं सदा त्रिजगद्गुरुः । त्वं सदा त्रिजगबन्धुस्त्वं सदा त्रिजगत्पतिः॥३०॥ कर्मणां निर्जयादेव त्वं जिनः परमार्थतः । त्वमेव मोक्षमार्गो हि साररत्नत्रयात्मकः ।।३१।। त्वं पापारिहरत्वाञ्च हरस्त्वं परमार्थवित् । भव्यानां शंकरत्वाच्च शंकरस्त्वं शिवप्रदः ॥३२॥ ज्ञानेन भुवनव्यापी विष्णुस्त्वं विश्वपालकः । त्वं सदा सुगतर्नेता त्वं सुधीर्धर्मतीर्थकृत् ॥३३॥ दिव्यचिन्तामणिस्त्वं च कल्पवृक्षस्त्वमेव हि । कामधेनुस्त्वमेवात्र वाञ्छितार्थप्रपूरकः ॥३४॥ सिद्धो बुद्धो निराबाधो विशुद्धस्त्वं निरञ्जनः । देवाधिदेवो देवेशसमर्चितपदाम्बुजः ॥३५॥ नमस्तुभ्यं जगद्वन्द्य नमस्तुभ्यं जगद्गुरो । नमस्ते परमानन्ददायक प्रभुसत्तम ॥३६॥ अस्तु मे जिनराजोच्चैर्भक्तिस्ते शर्मदायिनी । लोकद्वयहिता नित्यं सर्वशान्तिविधायिनी ॥३७||
For Private And Personal Use Only