________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सुदर्शनचरितम् गदित्वागमनं स्वस्य तथाभयमतीकृतम् । उत्थाप्य तबलं सर्व स्वस्य सारप्रभावतः ॥१४२।। सुदर्शनं समभ्यर्च्य दिव्यवस्त्रादिकाञ्चनैः । प्रभावं जिनधर्मस्य संप्रकाश्य ययौ सुखम् ।।१४३।। सत्यं श्रीमजिनेन्द्रोक्तधर्मकर्मणि तत्पराः। शीलवन्तोऽत्र संसारे कैर्न पूज्याः सुरोत्तमैः ।।१४४।। शीलं दुर्गतिनाशनं शुभकरं शीलं कुलोद्योतकं
शीलं सारसुखप्रमोदजनकं लक्ष्मीयशाकारणम् । शीलं स्वव्रतरक्षणं गुणकरं संसारनिस्तारणं
__ शीलं श्रीजिनभाषितं शुचितरं भव्या भजन्तु श्रिये ॥१४५।।
इति सुदर्शनचरिते पञ्चनमस्कारमाहाल्यप्रदर्शके मुमुक्षुश्रीविद्यानन्दिविरचिते अभयाकृतोपसर्गनिवारण-शीलप्रमावव्यावर्णनो नाम
सप्तमोऽधिकारः।
For Private And Personal Use Only